SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ . एकादशः सर्गः। येषां ते आइश्वर्या इति यावत् ,"आज्ञयैव हि राजानो जीवन्ति" इति वचनात् ।। ८२ ॥ एवं मुधाक्लप्तसुधाभिराभि ग्भिर्गुरोः पट्टधरः प्रचेताः। ओमित्युदात्तां वदति स्म वाचं वाचंयमामन्दमुदां निदानम् ॥ ८३ ॥ एवमुक्तरीत्या, गुरोः हीरमूरेः, आभिरेताभिर्वाग्भिः कि०, मुधाक्लससुधाभिर्मोपीकृताऽमृताभिः, पट्टधरः श्रीआचार्यः, किं०, प्रचेताः प्रमनाः सन् , ओमित्युदात्तां वाचं दति स्म, वाचं किं०, वाचंयमानां मुनीनाममन्दमुदां नि. दानं बहुहर्षकारणं, गुरुवाक्यं तथेति प्रतिपन्नवान् ॥ ८३ ॥ ... अस्मिन्ननूचानपतौ प्रपन्ने - वाच स वाचंयमराट् तुतोष । यन्ता धुरं बिभ्रति भूतभूरि स्थानीव वत्से बहुभारगुर्वीम् ॥ ८४ ॥ स वाचंयमराद् गुरुः, अस्मिन्ननूचानपतौ तां वाचं अपने सति, तुतोष संतुष्टिं मापेत्यत्वयः। दृष्टान्तमाह-यथा वत्से तर्णके, कि०, भूत जात भूरि बहुस्थाम वलं यस्मिंस्तस्मिन् वत्सके, बहुभारेण भारधरणेन गुर्वी गरीयसी, धुरं विभ्रति सति, यन्ता सारथिः, अष्टिं कुरुते तथाऽयमपीति भावार्थः । इदमर्थतो युग्मम् ।। ८४॥ केवलमिन्द्रवज्रया सर्ग निर्मायाऽथ वसन्ततिलकया तमुपसंहरति सहक्तिभाजनजगज्जनवन्धमानो
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy