SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः। ४२१ अब्देऽङ्ककूलिनीकान्तगुहाननमहीमिते । मार्गशीर्षे सचन्द्रायां तृतीयस्यां तिथौ तथा॥२॥ प्रस्थितानां पथि. क्षेमङ्करीः कल्पलता इव । 'तिस्रः श्रीतीर्थनाथानां प्रवितीर्य प्रदक्षिणाः॥३॥ साधुसाधुपरीवारः श्रीअनूचानपुङ्गवः । • वहद्दामखरोऽचालीत पुरं लाभपुरं प्रति ॥ ४॥ . आत्मगुरोः श्रीहरिविजयसूरेः, पादौ कि०, चित्तचिन्तिता मनःकल्पिता ये चारवो मनोज्ञा अर्था दिव्याभिलापास्तेषां दाने देवतरूपमौ कल्पद्रुमसमौ, प्रणम्य नत्वा, शेष सुबोधम् ॥१॥ अङ्का नव, कूलिनीकान्ताः समुद्राश्चत्वारः, गुहाननानि स्कन्दवदनानि षट्, मही भूरेका, एतैर? मगतिविन्य. स्तै१६४९मिते, अब्दे वर्षे, पुनर्मार्गशीर्षे मासे, पुनः, सचन्द्रायो हनीयस्यां तिथौ. मार्गशीर्षसिततृतीयातिथौ ॥ २ ॥ पथि मार्गे, पस्थितानां चलनं चिकीर्पूणां नराणां, कल्पलता इव क्षेमकरी: श्रीतीर्थनाथानां तिस्रः प्रदक्षिणाः प्रवितीयं दत्त्वा ।। ३ ॥ श्रीअनूचानपुङ्गवः श्रीविजयसेनभूरिः, किं०, साधवो रम्या ज्ञानतः शरीरदर्शनतध रमणीया ये साधवो मुनयस्तेषां परीवारः परिकरो यस्य सः, पुनः कि०, वहन् वाम: स्वरो नासिकागतमारुतो यस्य सः; प्रस्थाने हि वामपवननाडी चन्द्रनाडिपर्यायाऽतिवर्येति स्वरशास्त्रविदः, लाभपुरं पुरं प्रति, अचालीचलति स्मेति । इति चतुर्णी व्याख्या ॥४॥ अथाऽनुष्टुभां पञ्चविंशत्या ग्राम्यानाटविकांच कांचिच्छकुनान् वर्णयति प्रथमं पयसा पूर्णः पद्मिनीमूर्धनि स्थितः ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy