SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४२२ विजयप्रशस्त्याम् । ... अमिलत् कल्याणकुम्भः कल्याणमिव मूर्तिमत॥५॥ ... पयसा पानीयेन, पूर्णः; पुनः, पद्मिन्याः स्त्रिया मूर्धनि मस्त के, स्थितः कल्याणकुम्भः स्वर्णकलसः, अमिलद् मिलितः, दक्षिणकरेणेति गम्यम् , मूर्तिमत् कल्याणं मङ्गलमिवेत्युत्प्रेक्षालङ्कारः॥५॥ पश्यताऽभिमुखं सव्यं शुनोत्तरे सुमूर्तिना। यद् वीक्षितेऽस्मिन्नीदृक्षे प्रेयान् पन्थाःप्रवासिनाम्॥६॥ अभिमुखं संमुखं, पश्यता विलोकयता, शुना श्वानेन कि०, सुमूर्तिना चारुशरीरेण; अच्छिन्नकर्णचरणादिनेति यावत् , सव्यं वामदिग्भागं, उत्तेरे उत्तीर्णमिति, वामः श्वोत्तीर्णवान् , यदस्मिन् शुनि, ईदृक्षे वर्णितस्त्ररूपे, वीक्षिते सति, पन्या मार्गः, कामितार्थसिद्धिकारित्वेन प्रेयान् प्रकर्षेणाऽभीष्टः स्यात्, प्रवासिनां परदेशं प्रति चिचलिषूणामिति ॥ ६॥ ऊचानाचारवश्वाषपक्षिणः पुण्यसाक्षिणः। वामतो दक्षिणं क्षेमकारणं तोरणं व्यधुः ॥ ७ ॥ चापपक्षिणः; किं कुर्वाणाः, ऊचानाः शब्दायन्तः, यतः 'गतेबलवती चेष्टा चेष्टातो बलवान् स्वरः" इत्युक्तत्वात् , चापपक्षिणोऽपि ऊचानाः सन्तो विशेषेण चारवो मनोज्ञाः, पुनः कि०, पुण्यसाक्षिणो भाग्यसूचका इति, वामतः पार्वतः, दक्षिणं तो. रणं व्यधुश्चक्रुरिति विशेषतः क्षेमकारणमिति तत्त्वम् ।। ७॥ . देवी देवीव वामाऽवक् स्थिता हरिति भूरुहे । अवश्यं वशभाग भावि शं पथ्य।तिसूचिनी॥८॥ भूरुहि वृक्षे, किं०, हरिति आदें, स्थिता देवी दुर्गा देवीव सुरीव, वामाऽवग् ब्रूते स्म, अत्र पथि मार्गे, अवश्यं निश्चयेन,
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy