SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ विजयप्रशस्त्याम् । राज्यर्द्धिसंवननमन्त्रमिवाऽनुकूलम् । नाम व्यधुर्विजयदेव इति प्रसिद्ध ५९४ पूज्या अथ प्रकटपट्टधरस्य तस्य ॥ ५१ ॥ अथ ते पूज्याः परमगुरवः, तस्य प्रकटपट्टधरस्य, विजयदेवमृरिरिति नाम व्यधुश्चक्रुरित्यन्वयः, उत्प्रेक्ष्यते-सिद्धार्थनन्दनजिनेन्द्रस्य श्रीमन्महावीरस्य यद्विशालं तीर्थं चतुर्विधसङ्घरूपं तस्य राज्यर्द्धेः साम्राज्यश्रियः संवननस्य वशीकारस्य अनुकूलं हितकारकं मन्त्रमिवेत्युत्प्रेक्षालङ्कारः । अत्र च्छन्द:परावृत्तिः पट्टधरस्याऽखण्डितनामाऽऽनयनायेति तात्पर्यम् ॥ ५१ ॥ सर्वज्ञमूर्धाभरणं यदासीद् राजा नवीनो नहि विस्मयोऽयम् । सर्वाः कलाः केलिमधुर्यदत्र सद्यस्तदाश्चर्यमभूद् महीयः ॥ ५२ ॥ एष नवीनो राजाऽनूचानराद, यत् सर्वज्ञमूर्धाभरणं सर्वे च ते ज्ञाः पण्डितास्तेषां मृर्धाभरणं मौलिभूषणं, आसीज्जातः, एप नोऽस्माकं विस्मयो नास्ति, यतः कारणाद् नवीनो नूतनः, राजा चन्द्रः सर्वज्ञस्य महादेवस्य मूर्धाभरणं भवत्येवेत्यत्र किमाश्चर्यम् १, परं यदत्राऽस्मिन् नवे राशि, सर्वाः कलाः केलिमधुश्चकुः, तद् महीयो महद्, आश्चर्यमभूज्जातम्, नवे हि चन्द्रे सर्वाः कला नोत्पद्यन्त इति यतः “जीर्णचन्द्रो यत्कलाश्रेणिशाली" इत्यादिवचनादिति भावः ॥ ५२ ॥ " " न्यस्तः स्वकीयः स्म विभाति पूज्यपादैरनूचानवरेऽत्र पट्टः । भासां समूहस्तमसां सपत्नैः >
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy