SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः। प्रोल्लासिपद्मो विषमार्चिषीव ॥ ५३ ॥ - पूज्यपादैर्गुरुभिः, अत्राऽस्मिन् अनूचानवरे श्रीविजयदेवसूरौ, न्यस्तः पट्टः विभाति स्मेत्यन्वयः; भासां समूहः किरणगणः, किं०, प्रोल्लासिपमः विकाशिकमलः, पट्टपक्षे प्रोल्लासिनी पद्मा यत्र सः, तमसा सपत्नैः तमोऽरातिभिः सूर्यैरिति, विपमाचिपि कृशानाविवेति दृष्टान्तः ॥ ५३ ॥ पट्टस्तपागच्छपतेः पटीयान् शिष्येऽथ पट्टेऽत्र विभाति चैषः । अन्योन्यमासीदनयोर्बलयोः शोभा द्विपद्विवनयोरिवोच्चैः ॥ ५४ ॥ तपागच्छपतेः श्रीविजयसेनसूरेः, पट्टः कि०, पटीयान् पटुः, अत्र श्रीआचार्य शिष्ये विभाति, च पुनः, अत्र पट्टे गुरुपट्टे, एप शिष्यः श्रीअनूचानलक्षणः, विभातीत्यन्वयद्वयम् , अनयोईयोः पट्टानूचानयोः, किं०, बलोबलस्य ऋद्धिः ययोस्तयोः बलशालिनोरिति, द्विपद्विड्वनयोरिव केसरिकाननयोरिव, शोभा आसीत् । कथम्?, अन्योन्यं परस्परं, यथा वनेन सिंहः, सिंहेन च वनम् तथा पट्टेनाऽनूचानः, अनूचानेन च गुरुपट्ट इति, द्वयोः शोभा जातेति तस्वम् ॥ ५४ ॥ श्रीमल्लनाम्ना. गृहिणा तदोच्चै विचितौ श्रीतपगच्छनाथौ। भातः स्म तौ काञ्चनरूप्यरूपै. दस्राविवाऽस्वप्नतरुप्रसूनैः ॥ ५५ ॥ तदा तत्रोत्सवे, श्रीमल्लनाम्ना गृहिणा श्राद्धेन, तौ दौ श्रीतपगच्छनायौ भट्टारकाचार्यो, अर्चितौ पूजितौ सन्तौ, भातः
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy