SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः । सर्वज्ञदेवयतिगुर्वतिचारुचित्तभक्ती विरक्तिगुणशीलसलीलसक्ती । तौ दम्पती कृतिकृती सुकृतानि दीनोद्धारादिकानि सुदृशौ सदृशान्यकाम् ॥ ७१ ॥ सर्वज्ञोऽर्हन् यो देवः, यतिश्चारित्रीयो गुरुः, तयोः सर्वज्ञदेवयतिगुर्वोः, अतिचारुः अतिशयेन चार्वी, चित्तभक्तिर्ययोस्तौ, सर्वज्ञदेवयतिगुर्वतिचारुचित्तभक्तीः पुनः किं० विरक्तिर्वैराग्यं, तल्लक्षणो गुणो यस्मिंस्तच्च शीलमाचारी, ब्रह्म वा, तत्र सलीला सक्तिः सको, ययोः ताः तौ दम्पती कोडिमदेवीकमाख्यौः पुनः किं० कृतिनां कोविदानां, कृतिः क्रियाऽर्थाद्धार्मिकी क्रिया वर्तते ययोस्तौ कृतिकृती, सुकृतानि पुण्यानि, किं० दीनोद्धारादिकानि; पुनः किं० सदृशानि तुल्यानि; अकाष्ट कुरुतः स्मेति । अत्र पूर्वार्द्धे देवगुरुरागित्वमुक्तम्, पश्चिमार्द्धे तु धर्मरागित्वमिति तत्त्वत्रयीधारित्वं सूचितं तदेवाग्रेतनविशेषणेन दृढयति — पुनः तौ किं० सुदृशौ सम्यगृहशाविति भावः ॥ ७१ ॥ मत्वा गृहिष्वनुदिनं निरपत्यताऽऽख्यं दुःखं दुरुद्धृतिकशल्यमिवान्तरस्थम् । तौ दम्पती भिषजमार्हतमामयनं ५३ धर्म तदुद्धृतिधिया भजतः स्म भूरि ॥७२॥ अनुदिनं प्रतिदिवसं गृहिषु गृहस्थेषु, निरपत्यताऽऽख्यं निःसन्ततिनामकं, दुःखं, अन्तरस्थं शरीरमध्यस्थितं, दुःखेन उद्धृतिरु
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy