SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ विजयपत्रस्त्याम् । तुल्योपकाररसिकौ च सदृगूचिस्थौ छायायुताववितथप्रथितप्रभावौ । तौ दम्पती घनतमानि तमांसि पुष्प दन्ताविव द्रुतमहर्निशमभ्यभूताम् ॥७॥ भूपालगोपालखपाकवराकवणिविप्रवेश्यावेश्मादिषु नि. विशेषतया तुल्ये समाने. उपकार प्रकाशाडादलक्षणे, रसिको तुल्योपकाररसिकौ दम्पतीपक्षे द्वयोरप्यतिशायिकारुण्यपरतया, तुल्ये परस्परं समाने, उपकार लोकोपकारकरणादौ, रसिको पुनः किं० सदृगूचिस्या जगद्गतध्वान्तध्वंसित्वन, सदृक् सहशी, यारचिर्युतिः, तत्र स्थिताः दम्पतीपक्ष सदृशी रुचिर्दानादिधर्मकर्मस्पृहा, तत्र स्थिताः पुनः किं० छायायुतो 'छायाऽर्कयोषित्यनातपे कान्ती शोभायां च' इत्यनेकार्थत्वात् तरणिपक्षे छाया सूर्यभार्या; चन्द्र- . पक्षे च छायाऽनातपः कान्तिर्वा शोभा वा तया युतौ कलितोः दम्पतीपक्षे छायावद् युतौ मिलितोः यथा छाया छायावन्तमाश्रित्येव तिष्ठति तथा तावप्यन्योन्यमाश्रितो, कोऽयः स्वस्वशरीरच्छायावद् युतो, परस्परं नित्यावियुक्तावित्यर्थः; पुनः किं० अवितयो यथार्यः, प्रयितश्च चराचरजगत्मतीतः, सूर्याचन्द्रमसोः पसे प्रमावस्तेजः; दम्पतीपक्षे प्रभावः शक्तिः, सांसारिकधार्मिकक्रियानिर्वाहरूपा ययोरित्युभयत्रापि यथासम्भवं योज्यम् । ती अवितयथितप्रभावी, तौ दम्पती भार्यापती, पुष्पदन्ताविव सूर्याचन्द्रमसाविव, घनतमानि निविडतराणि, तमांसि पापानि, अन्धकाराणि च अभ्यभूतां निराकुरुतः स्मेत्यर्थः ।। ७० ।।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy