________________
६४८
विजयप्रशस्त्याम् ।
तासंपतिं प्रतिबोधसंपत्ति च, बिभराम्बभूव, अत्र खण्डशब्दस्य पुंनपुंसकत्वात् खण्डमिति प्रयोगः ॥ ४१ ॥ गुरुर्गरीयान् नगरस्य तस्य समुन्नतिं सत्कमलश्चकार ।
प्रवर्धमानैर्महसां समूहैः
पानीयराशेरिव शर्वरीशः ॥ ४२ ॥
गरीयान् गुरुः, शर्वरीश इव चन्द्र इव, किं०, सत्कमल: सती सत्या विद्यमाना वा कमला ज्ञानादिश्रीर्यस्य स इति, पक्षे सन् विद्यमानः कमलो लाञ्छनमृगो यत्र सः, अथवा " गजे शङ्खे हरौ छत्रे चन्द्रे पद्मे जिनालये । मौक्तिके विद्रुमे स्वर्णे या नित्या परमेश्वरी" ॥ १ ॥ इति श्रीजिनशासनप्रभावकश्री आमनामनृपप्रतिबोधक श्रीबप्पभट्टिमहाकविवचनात्, तथा
" चन्द्रं गता पद्मगुणान् न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥ २ ॥
इति कालिदासोक्तकुमारसंभवप्रयोगात्, तथा “छत्रेन्दुपचादिषु रूढिमात्रं" इति श्रीजिनप्रभाचार्यवचनाच्च चन्द्रेऽपि श्रीसद्भावात् सती विद्यमाना कमला यत्र स इति गुरोश्चन्द्रस्य च तुल्यधर्मविशेषणता, तेन सत्कमलो गुरुस्तस्य नगरस्य पानीयराशेः समुद्रस्येव, प्रवर्धमानैः प्रसर्पद्भिः, महसामुत्सवानां तेजसां च समूहैः समुन्नतिं चकारेति काव्यार्थः ॥ ४२ ॥ धर्म्याणि कर्माणि च धार्मिकौघैः प्रपञ्चितानि प्रसभं बभूवुः ।
तत्र स्थितेऽस्मिन् सुगुरौ कुलीरे