SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ एकोनविंशः सर्गः । तेजांसि सूराविव निर्जराणाम् ॥ ४३ ॥ अस्मिन् सुगुरौ तत्र कुमरगिरौ सति चतुर्मासीमासीने सति धर्षाणि कर्माणि सौकृतकृत्यानि, किं०, धार्मिकौधैः श्राद्धसार्थैः, प्रपञ्चितानि विस्तारितानि निर्मापितानीति यावद, प्रसभं बलात्कारेण हठेनेति अहमहमिकयेति, बभूवुर्जातानि दृष्टान्तोत्र - निर्जराणां सूरौ सुराचार्ये, कुलीरे कर्कटे, स्थिते सति, तेजांसि यथा जायन्ते, कर्कस्थो हि गुरुरुच्चत्वेन महावेजस्वीति ज्योतिर्विदां मतमिति ॥ ४३ ॥ सङ्घोऽनघः पत्तनपचनस्थस्तत्र स्थितं श्रीगुरुराजराजम् । ननाम नित्यं कृतनेत्रयुग्म ६४९ शैत्यं समागत्य सतत्त्वसत्यम् ॥ ४४ ॥ पुनः, तत्र स्थितं श्रीगुरुराजराजं सूरीन्द्रचन्द्रं, किं०, कृतनेत्रयुग्मशैत्यं विहितनयनयुगलाहार्द, पुनः किं०, सह तत्त्वसत्याभ्यां वर्तते यस्तं सतत्त्वसत्यं, पत्तनपत्तनस्थोऽण हिलपाटकवासी सङ्घतुर्विधोऽपि नित्यं समागत्य ननामानमत् ॥४४॥ ज्येष्ठस्थितिं तत्र समास्थितः श्रीतपाधिपोऽतिप्रकटप्रतापः । आसीदसह्यः परतीर्थिकानां धाराधराणामिव मातरिश्वा ॥ ४५ ॥ " नगरे ज्येष्ठस्थितिं वर्षास्थिति, समास्थितः सन् अतिप्रकटप्रतापः श्रीतपाधिपस्तपगच्छरा परतीर्थिकानामम्यपाक्षिकाणाम्, असह्यो वलवस्येनाऽसहन रति, आसीत : मातरिश्वा पवन इव, धाराधराणां मेघानामिवेति दृष्टान्तः ॥ ४५ ॥ ૩
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy