SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ विजयप्राशस्त्याम् । पर्यन्तभूवर्तिषु भूरुहेषु । शाखासु शाखामृगवद् भ्रमंश्च तेषां स पंक्वानि फलान्यखादत् ॥ ६४ ॥ __ एष वालः, पुरः पुर्या नारदपुर्य्या इति याक्त्, पर्यन्तं भूवर्तिषु परिसरस्थेषु, भूरुहेषु कारस्करेषु सहकारराजादने गुदीदाडिमीकदलीकर्कन्धप्रमुखेषु, आरोहति स्मारूढवान् । कयं० पुरस्ताव अग्रतोऽपरदारकेभ्यश्छेकतयेति शेषः । च पुनस्तेषां शाखिनां शाखासु, शाखामृगवत् कपिरिव, भ्रमन् स कुमारः, पकानि परिणतानि, फलानि अखादद्भक्षयति स्मेति ॥६४॥ सस्त्रौ स सस्नेहमथो पुरस्य - समीपगायां सुभगापगायाम् । प्रोत्फुल्लपाथोरुहपेशलायर्या __ स्वर्निम्नगायामिव राजहंसः ॥ ६५ ।। अथो कदाचित् , स वालः, पुरस्य नगरस्य, समीपगायां सविधवर्तिन्यां, सुभगापगायां मनोहस्तरङ्गिण्यां, सस्नो स्नानं व्यधात् । यथा प्रोत्फुल्लपायोरुहपेशलायां विस्मेराम्भोरुहबन्धुरायां, स्वनिम्नगायां गङ्गायां, राजहंस इवेति दृष्टान्तः ॥६५॥ नानाविनोदै रममाणमेव मालोक्य बालं मुमुदें सवित्री । मत्ताः करीन्द्रा इव सूनवोऽर्भा . उच्छृङ्खला एव हि तुष्टये स्युः ॥ ६६ ।। एवमिति व्यावर्णितस्वरूपैः, नानाविनोदैविविधविलासैः, स्ममाणं क्रीडन्त, बालं विलोक्य सवित्री माता, मुमुदे इर्षमधात् ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy