SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः । . २८५ मासः कान्तयो यस्मिंस्तस्मिंश्वन्दिर भासि शुक्ले इति यावत् । पुनः, मासे तपस्ये फाल्गुने, पुनः, अहनि दिने शीतचिषः शीतांशोर्वासरे सोमवार इति, मृगशीर्षनक्षत्रे चेति योगः, पुनः, शशिना चन्द्रेणालङ्कृते वृषाख्ये द्वितीये वृषलने वहमाने उदयिनि सतीति भावः ॥ ६७ ॥ अथ ग्रहस्थित्या कुण्डलिकामाह - विधुन्तुदे चन्द्रगृहं समागते रवेः पृथिव्याश्च सुते तुलाऽऽश्रिते । कुम्भस्थयोः पङ्कजिनीप्रियज्ञयोमनौकसोर्भार्गवशक्रमन्त्रिणोः ॥ ६८ ॥ २ चं. विधुन्तुदे राहौ चन्द्रगृहं कर्कलग्नं समेते सति, पुनः, रवेः सुते शनैश्वरे पृथिव्याः सुते मङ्गले च तुलाऽऽश्रिते तौल्यां गते सति, पुनः पङ्कजिनीप्रियज्ञयोः सूर्यबुधयोः कुम्भस्थयोः सतोः, पुनर्भार्गवशक्रमन्त्रिणोः शुक्रगुर्वीः, मीनौकसोमनलग्नस्थितयोरिति ग्रहसंस्थितिः स्थापना; यथा - द्वादशभवनविभागेन कुण्डलिका । एतद्ग्रहाणां फलादिविचारस्तु व्यवहारचर्यागतराज्याभिषेकमकीर्णकादवधार्योऽत्र तु ग्रन्थगौरवभीरूणा मया न लिख्यत इति ॥ ६८ ॥ पुनराह - ४ रा. ༥ ६ ७ श. श्रीः ११ बु. सू. १० ८ शु १२ बृ अन्तर्विशद्वायुनि वामनासिकारन्ध्रे च रन्धैरहिते समारुते ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy