SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २८६ विजयाशस्त्याम् । तत्त्वे घराया वहमान ऊर्जिते ... कार्यस्य सौभाग्यविधानपूर्वहे ॥ ६९ ॥ च पुनः, वामनासिकारन्ध्रे सति, कीदृशे, रन्धेश्छिद्रः रहिते निर्दोषे इति यावत् । पुनः कि०, अन्तर्मध्ये विशन् प्रविशन्. वायुर्यस्मिंस्तस्मिन् ; पुनर्धरायाः पृथिव्यास्तत्त्वे समारुते वायुना पूरिते वहमाने सति; यतः- “सर्वेभ्योऽपि हि तत्त्वेभ्यः पृथ्वीतत्त्वं महाबलम्" इत्युक्तेः। पुनर्धरायास्तत्त्वे कि०, कार्यस्य कर्तुमारब्धस्य, सौभाग्यविधाने धूर्वहे समर्थे इति । यदुक्तमारम्भसिद्धौ"कार्याणि भूमिजलतत्त्वगतौ कृतानि निर्दम्भमाभ्युदयिकी प्रथयन्ति लक्ष्मीम्" इत्यादिवचनात् , अर्जिते वलवति पृथ्वीतत्त्वे ॥ ६९॥ यत् कृतं तदाहअथो जगहोधिपयोधिचन्द्रमाः स्थानं जयानां जयसिंहपण्डितः । श्रीमानुपाध्यायपदे खमूर्तिव न्यधायि सूरीन्द्रपदे च सूरिभिः ॥ ७० ॥ अथास्मिन् मुहूर्ते जयसिंहपण्डितः, किं०, जगद्बोधिपयोघो विश्वोद्बोधसमुद्रे चन्द्रमाः, पुनः, जयानां स्थानं, श्रीउपाध्यायपदे न्यधायि, पूर्वमिति गम्यम् । च पुनः, तदनु तत्कालमेव, तेः मूरिभिः श्रीहरिविजयाचार्यैः, सूरीन्द्रपदे न्य. धायि स्थापितः । किंवत् , स्वमूर्तिवत् स्वमूर्तिप्रतिबिम्बमेव कृतमिति भावार्थः । इति काव्यकलापकव्याख्या ॥७०॥ अथास्य नामवर्णनमाहश्रीसुन्दरीहृदयसंवननक्रियाया
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy