SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ - नवमः सर्गः। ३२७ ऽभवत् परीक्षासु विचक्षणेक्षणः ॥ १२ ॥ अत्यधुना, सोऽवनिजानिचन्द्रमा अकबरो राजेन्दुः, किं०, नमन्नृपश्रेणिभिनिषेवितौ क्रमौ यस्य सः, एकदा कदाचिदेकस्मिन् दिने, परत्र परलोके संपद् यस्मादेवंविध सुकृतं पुण्यं यस्मिन् तस्य, वर्त्मनो मार्गस्य, परीक्षासु विचक्षणं प्रवीणं ईक्षणं ज्ञानलोचनं यस्य सः, पारलौकिकपुण्यमार्गपरीक्षायां परीक्षकोऽभूदिति भावार्थः ॥ १२ ॥ श्रीमान् हमाऊतनयोऽरिपार्थिव प्रियाश्रुपूरैरभिषिक्तविक्रमः। स दर्शनानामतिदर्शनीयदृग् जनान् समस्तान् मतिमानमीमिलत् ॥१३॥ सः श्रीमान् हमाऊतनयोऽकब्बरः, किं०, अरिपार्थिवनियाश्रूणां वैरिराजनारीनयननीराणां पूरैः, अभिषिक्तो विक्रमः पराक्रमो यस्य सः, समतिमान् पुनः, अतिदर्शनीयदृग् धर्मप्रियत्वात् अतिदर्शनीयं विलोकनाई दृग् दर्शनं यस्य सः, दर्शनानां जनान् इत्यत्र धर्मधर्मिणोरभेदोपचाराद् बौद्धादीनां पञ्चानां दर्शनानां दर्शनिनः समस्तान् अमीमिलत् , आदौ पञ्चदर्शनजनान् संमील्य धर्माधर्मपरीक्षां कृतवानिति ॥ १३ ॥ अमीष्वसौ वस्त्रमतार्थवादिषु प्रियं न पन्थानमपश्यदात्मनः । .. मणीमिवोच्चावकरेषु सद्भुचिं रजस्तृणाश्मच्छगणादिपङ्किषु ॥ १४ ॥ असौ शाहिः, स्वस्वमतार्थवादिषु निजनिजमताभिमतभाव
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy