________________
पञ्चमः सर्गः।
१९७ मभिलषामि समाहितचेतसाम् । त्वमपि तत्र तदम्ब ! भवाऽधुना __ छविपदेऽविपदेनसि सत्वरा ॥ १४ ॥
समाहितचेतसां समाधियुक्तमनसां, महात्मनां साधूनां, यत्राऽध्वनि मार्गे, वजितुं गन्तुं, अभिलषामि ईहे, अहमिति योगः। हे अम्ब! ततस्तत्राऽध्वनि, कीदृशे, छविपदे शोभाऽऽस्पदे, पुनर्न विद्यते विपत् संसारसंबन्धिनी दुष्कर्मव्यापारप्रयासादिरूपा व्यापत्तिः, एनः पातकं च यत्र तत्राविपदेनसि; त्वमपि सत्वरा भव औत्सुक्यं भजेति, संयमस्वीकारकरणेन मम सहायीभवेति शवार्थः ॥ १४ ॥ वचनमीरितमात्मभुवेत्यदो
ऽनघमुदां खनिरप्यगरीयसा । शिखिसुलोचनयेव पयोधर
ध्वनिरमानि रमासमयाऽनया ॥ १५ ॥ अगरीयसापि बालेनापि, आत्मभुवा पुत्रण, इतीरितं व्यावर्णितरूपं वचनं, कीदृशं, अनघमुदो खनिर्मनोज्ञहर्षाकरः, शिखिसुलोचनया केकिकान्तया, यथा पयोधरध्वनिर्मेघनादः, तथाऽनया कोडिमदेनाम्न्या जनन्या, किं०, रमासमया लक्ष्मीतुल्यया, अमानि मेने ॥ १५॥ प्रमुदिता प्रति सूरतिबन्दिरं
चलितुमैच्छदथार्थमिवाऽङ्गिनम् । सपदि सा परिगृह्य तमात्मनः
सुतमसातमसावुदकोपमम् ॥ १६ ॥