________________
२००
विजयप्रशस्त्याम् ।
क्ष्यते - मुनिपतेः श्रीविजयदानसूरेः, अग्रतः मनोहरमौक्तिकैः रम्यमुक्ताफलैः, उपदां ढौकनं, विदधती कुर्वती, पुनः, बरः श्रेष्ठो यो वचः शुकः " वचः शुके " इत्यनेकार्थत्वादिति बरवचः शोभनशुकस्तद्वत् आरवेण ध्वनिना चारुमुखी, न्यगदद् बभाणेति ॥ २१ ॥
सममनेन सुतेन लघीयसा निकट आर्यवराः ! सुकृताकरे ।
परिजिघृक्षुरहं ध्रुवमस्मि वः
शुभवतां भवताण्डवहृद् व्रतम् ॥ २२॥
अनेन पुरः स्थितेन सुतेन समं सार्धं, हे आर्यवराः श्रीपूज्यमिश्राः ! शुभवतां श्रेयस्विनां, वो युष्माकं, निकटे पार्श्वे, कीदृशे, सुकृताकरे धर्मखानौ, भवताण्डवहृत् संसारनाव्यहरं, व्रतं चारित्रं, ध्रुवं निश्चयेन, परिजिघृक्षुर्ब्रहीतुमिच्छुः, अस्मीत्यर्थः २२ इति तदुक्तिमुदारगुणास्पदं
सुतममुं च निशम्य सदाकृतिम् । भृशममी गुरवो गुरुवैभवा
मुमुदिरे मुदिरेष्टसमागमाः ॥ २३ ॥
उदारगुणानामास्पदं पदं, तदुक्तिं तद्वाचं, निशम्य श्रुत्वा, पुनः, सदाकृर्ति शोभनाकारं, अमुं सुतं निशम्य निरीक्ष्य । यत् श्रीहेमसूरयोऽनेकार्थसंग्रहे “निशमनं निशामनं निरीक्षणश्रवणयोः" इत्याहुः, अमी गुरवः श्रीपूज्याः कीदृशाः, गुरुवैभवा महासंपदः, पुनः, किं०, मुदिरो मेघस्तद्वत् इष्टः समागमो येषां प्रजानामित्याक्षेप्यते, मुदिरेष्टसमागमाः, सुमुदिरे मोदमापुः ॥ २३॥
अमृशदम्बिकयेरित आदरात्