SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः। ४.९ पूर्वापरेशाविव वज्रपाश पाणी प्रभुं पार्श्वमुपेयिवांसौ ॥ ५७ ॥ अत्र चैत्ये द्वौ द्वारपालौ प्रतीहाररूपी, कि०, भूयःसुभगौ भृशं रम्यौ, पुनः किं०, तपनीयस्य सुवर्णस्य यष्टिदण्डो ययोस्तौ, विभातः शोभेते, पूर्वेशश्च अपरेशश्च पूर्वापरेशौ शक्रवरुणौ, किं०, वज्रं च पाशश्च पाणौ ययोस्तौ वज्रपाशपाणी, प्रभुं द्रष्टुमुपेयिवांसौ संपाप्ती, इवोत्प्रेक्षायामिति ॥५७॥ सप्ताऽतिभान्ति प्रसभाभिरामा- ... चैत्येऽत्र देवात् कुलिका विशालाः। खर्गात् प्रभुं द्रष्टुमिवागताना मास्यानिवासा द्युसदामृषीणाम् ॥ ५८ ॥ अत्र चैत्ये सप्त देवात् कुलिका देवकुलिकाः, अतिभान्ती. त्यन्वयः । इवोत्प्रेक्ष्यते-प्रभुं द्रष्टुं स्वर्गादागतानां घुसा ऋषीणां सप्तीणां, आस्यानिवासा आसनस्थानानीवेति ॥५८॥ अक्षाक्षिसंख्या भगवद्विहारे भान्त्युत्तमा मङ्गलमूर्तयोऽस्मिन् । हर्षेण साधुव्रतभावनाह्व- .. लक्ष्म्यः प्रभु सेवितुमागताः किम् ? ॥५९॥ अक्षाणीन्द्रियाणि पञ्च, अक्षिणी द्वे, वामगत्याऽक्षाक्षिसंख्याः २५ पञ्चविंशतिसंख्याः , अस्मिन् भगवद्विहारे मङ्गलमूर्तयो भान्ति; किं०, साधूनां व्रतानि पञ्च महाव्रतानि तेपां भावनाः प्रत्येकं भावनापञ्चकसद्भावात् पञ्च पञ्चगुणीकृताः पञ्चविंशति-- भवन्ति तेन साधुव्रतभावनारूपलक्ष्म्यः , किं प्रभु सेवितुमागताः.१, इति ॥ ५९॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy