SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४१०.. . विजयप्रशस्त्याम् । संशोभते भूमिगृहं विशालं .. चैत्येऽत्र चारु प्रकटप्रकाशम् । पातालधाम्नां भवनं समेतं द्रष्टुं मनोज्ञामिव चैत्यलक्ष्मीम् ॥ ६० ॥ अत्र चैत्ये विशालं, पुनश्वारु, पुनः प्रकटप्रकाशं भूमिगृह संशोभत इत्यन्वयः । चैत्यलक्ष्मी द्रष्टुं पातालधाम्नां दैत्यानां, भवन समेतमायातमिवेति ॥ ६० ॥ भूमीगृहे भान्ति खनेत्रसंख्या___ न्यारोहणान्यहुतसन्धिभाञ्जि । अङ्का अशङ्का दुरितक्रियाणां हेलाहतानामिव चैत्यभ; ॥ ६१ ॥ खानि इन्द्रियाणि पञ्च, नेत्रे द्वे, वामतो गत्या खनेत्रसं. ख्यानि पञ्चविंशतिसंख्यानि, आरोहणानि सोपानानि, किं०, अद्भुतसन्धिभाञ्जि सुसन्धीनि, भूमीगृहे भान्तीत्यन्वयः । उत्प्रेक्ष्यते-चैत्यभो मूलनायकेन श्रीपार्श्वनाथेन, हेलाहतानां लीलातर्जितानां, दुरितक्रियाणां पञ्चविंशतिसंख्यानां सावचक्रियाणां, अङ्काश्चिह्नानीवेति ॥ ६१ ॥ विभ्राजते भूमिगृहे गणेशः __ सोपानपङ्क्त्युत्तरणे पुरःस्थः । अन्तःप्रवेशं सृजतां जनानां प्रत्यूहहत्यर्थमिवागतोऽसौ ॥ ६२ ॥ सोपानपङ्क्त्युत्तरणे सति, पुरःस्थो भूमिगृहद्वारि, गणेशो विनायकः, विधाजत इत्यन्वयः । अन्तःप्रवेशं सृजता
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy