SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः । ४.१.१ कुर्वतां जनानां प्रत्यूहहत्यर्थे विघ्नध्वंसकृते, आगत इवेत्यु त्प्रेक्षा ॥ ६२ ॥ भूमीगृहं भाति लसत्प्रपञ्चं पञ्चप्रतीहारमुदाररूपम् । पञ्चापि भङ्क्तुं किमु पञ्चबाण बाणानलं पञ्चमुखः समेतः ? ॥ ६३ ॥ . भूमीगृहं किं०, लसत्प्रपञ्चं सविस्तारं, पुनः पश्च प्रतीहारा दौवारिकरूपाणि यत्र तत् पञ्चप्रतीहारम्, अतएवोदाररूपं किमु पञ्चापि पञ्चवाणवाणान् स्मरशरान् भङ्कं पञ्चमुखो महादेवः समेत इति ॥ ६३ ॥ धत्ते श्रियं तच्चतुरस्रमुच्चै - भूमीगृहं दिग्मितिभृत्रोच्चम् ! स्वामिप्रणामाय समागताना मास्थानपृथ्वीव हरिद्वधूनाम् ॥ ६४ ॥ तद्भूमीगृहं किं०, चतुरस्रं चतुष्कोणेषु समं, पुनः किं०, दिग्मितिभृतः करान् हस्तान् यावदुच्चं दिग्मितिभृत्करोचं दश हस्तान् यावदुच्चत्वेनेति । इवोत्प्रेक्ष्यते - हरिद्वधूनां दिग्नारीणां स्वामिनः पार्श्वेशस्य प्रणामाय, समागतानाम्, आस्थान पृथ्वी निवासस्थानमिवेति ॥ ६४ ॥ मूले प्रतीहार उदारगर्भा गारस्य सारस्य पयः पयोधेः । भूधानि तत्र प्रथमार्हतोऽस्ति मूर्तिस्तुरङ्गत्रिमिताङ्गुलीया ॥ ६५ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy