SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ ६५६ विजयप्रशस्त्याम् । तत्र श्रीस्तम्भतीर्थे नगरे, किं०, पवित्र तीर्थ जैनचैत्यादिरूपम् , अथवा तीर्यते संसारसागरोऽनेनति तीर्थ चतुर्विधसङ्घरूपं यत्र तत्र, तस्य सङ्घस्य, आग्रहाद् गणेन्द्रो गच्छराट्, कि०, कृतसर्वशर्मा विहितसकलसौख्यः, अत एव इवोत्प्रेक्ष्यतेवपुष्मान् मूर्तिमान् , धर्म एष इति बृहती स्थितिं चतुर्मासी, वितेनेऽकरोदिति ॥ ६॥ तत्पारणे पुनरपि प्रथिता प्रतिष्ठा चक्रे तपाधिपतिना बहुना महेन । श्रीधाम्न्यकब्बरपुरेऽथ पुरे गरिष्ठे .. ज्येष्ठा स्थितिश्च रुचिरोत्सवकारिसङ्घ ॥६१॥ तत्पारणे तस्य चतुर्मासकस्य पारणके, पुनरपि तत्रैव तीर्थे तपाधिपतिना तपागच्छनायकेन, बहुना भूयसा, महेनोत्सवेन, प्रथिता प्रसिद्धा, धनव्ययादिनेति शेषः, प्रतिष्ठा चक्रे कृतेति, अथ प्रतिष्ठाकरणानन्तरं, ज्येष्ठा स्थितिश्च पुनरकबरपुरे स्तम्भतीर्थसमीपस्थायिनि शाखापुरे, किं०, श्रीधान्नि लक्ष्मीस्थाने, पुनः, गरिष्ठे द्रव्यभावाभ्यां गरीयसि, पुनः किं०, रुचिरोत्सवकारी सङ्घःश्राद्धसको यत्र तत्र, चक्र इति योज्यम् ६१ स्थित्वा तत्र कियन्त्यहानि विलसच्छौण्डीर्यसंपत्तिभि जिष्णुर्भुवनातिशायिसततश्रीदानसन्तानकः। मार्गदूनिव वादिनो घनमदान निर्मूलमुन्मूलयन् गन्धारं नगरं जगाम भगवान् भट्टारकानेकपः ॥६२॥ __तत्र अकबरपुरे चतुर्मासी विधाय कियन्ति अहानि दिनानि, स्थित्वा पारणेऽपीति शेषः, स भगवान् पूज्यः, किं०, भट्टारकेषु अनेकपः कुञ्जर इति, किंभूत इति विशेषणत्रयेण कुञ्जरसाधम्र्य सूरे सूचयति-विलसद् दीप्यमानं यत् शौ
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy