SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १२१ विजयास्त्वाम् । या कीर्तिमद्यापि बिभर्ति लोके सुधेव संसूत्रितसौमनस्या ॥ १४ ॥ ततस्तस्माद, सूरेः श्रीवज्रस्वामिनः, ख्यातिमती प्रसिद्धिमुपगता, वज्रशाखाऽभवत् । कीदृशी, वो विनेयानां शिष्याणां शाखाः पक्षान्तराणि संततिविशेषा यस्यां सा वर्यविनेयशाखा । या शाखाऽद्यापि लोके तत्परम्परागतमुनिजने, कीर्ति बिभर्ति यशस्विनी प्रवर्तत इति । या किं०, संमत्रितं सम्यग् निर्मितं सौमनस्यं सुमनसो भावः कर्म वा सौमनस्यं पाण्डित्यं यया सा संसूत्रितसौमनस्या। केव, सुधेव । सुधापक्षे संम्त्रितं सौमनस्यं निर्जरत्वं यया सेति ॥ १४ ॥ तच्छिष्यमुख्यः स्खलिताक्षसेनः श्रीवज्रसेनः स गुरुर्बभूव योऽभूषयत्कौशलधाम वज्र शाखामलं कीर इवाम्रशाखाम् ॥ १५ ॥ .... तस्य श्रीवज्रस्य शिष्येषु मुख्यस्तच्छिष्यमुख्यः, किं०,स्वलिता भग्ना अक्षाणामिन्द्रियाणां सेना येन स स्खलिताऽक्षसेनः, श्रीवज्रसेनो नाम्ना स गुरुर्गच्छराड् बभूव । स क इत्याहयः कीर इव शुक इव, यथा आम्रशाखां, तथा वज्रशाखां श्रीवजूखामिसन्ततिं अभूषयत् । कथम् , अलमत्यर्थमिति, कीदृशः, कौशलधाम नैपुण्यास्पदम् । इदं द्वयोरपि विशेषणमिति ॥१५॥ ___ नागेन्द्रनामा प्रथमो द्वितीय श्चन्द्रोऽथ नित्यभिधस्तृतीयः ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy