________________
४६४ विजयप्रशस्त्याम् । यो भानोरातप इव, न भेद्यो न च च्छेद्यो भेत्तुं छेत्तुं चाऽशक्योद्विधाकर्तुमनई इति यावत् ॥ १६७ ॥
यः सदा विद्यमानोऽपि मलक्लेदनिदानया। स्पृश्यते नाऽऽपदा काल इवाऽत्यप्रतिरूपया ॥१६८॥
तथा यः सदा सर्वकालं, विद्यमानोऽपि काल इवाति अप्रतिरूपया आपदा न स्पृश्यते, तथा च कालवत् सर्वदा अक्षीण इति, आपदा किं०, मलक्लेदस्य पापश्रमस्य निदानया हेतुभूतयेति ॥ १६८ ॥ स्त्रैणे तृणे मणौ रेणौ मित्रे शत्रौ पुरे पथि । राज्ञि रङ्के सुखे दुःखे यः समानमनाः सना ॥१६९॥
तथा यः समानमना अस्तीत्यन्वयः । कुत्र कुत्रेत्याह-वैणे स्त्रीणां समूहे, तृणे प्रतीते, मणो रत्ने, रेणी धूल्यां, मित्रे तथा शत्रौ, तथा पुरे पथि वर्मनि, राज्ञि नृपे, रके प्रतीते, सुखे तथा दुःखे इत्यादिषु, सर्वदा समपरिणाम इति ॥ १६९ ॥ .
शब्दरूपरसस्पर्शगन्धाः पञ्च न सन्ति च । यत्रोन्मादादयः पाञ्चबाणा बाणा इवात्मनि ॥१७॥
यत्र यस्मिन, शब्दरूपरसस्पर्शगन्धाः पश्चाऽपि विषया न सन्ति, चकारः पुनरर्थे, तथा यत्रात्मनि आत्मरूपे,पाश्चबाणाःकान्दर्पाः, बाणा इव, उन्मादादयः पश्चापि प्रमादा न सन्तीति॥१७०॥
यत्रेषदपि नातङ्कः सर्वदा समवर्तिनः । वर्तत वासराधीश इव ध्वान्तोदयः क्वचित् ॥१७॥ तथा यत्र ईषदपि स्तोकोऽपि, समवर्तिनो यमस्य, आतङ्को न वर्तते यथा वासराधीशे रवी, ध्वान्तोदय इति दृष्टान्तः॥१७१॥