________________
द्वादशः सर्गः।
४६३ यस्य हस्ततलन्यस्तमुक्तेवाऽस्ति धियोऽध्वनि ॥१६॥
भवद् वर्तमानं, भविष्यदनागतं, भूतगतीतमिति त्रिकाल. वर्ति, सर्व सविस्तरं वस्तु यस्य हस्ततलन्यस्तमुक्तेव करतलकतमुक्ताफलवत्, अस्ति; धियोऽध्वनि ज्ञानमार्गे ॥ १६४ ॥
अस्ति प्रमाणविज्ञेयः कालेषु त्रिपु यो गुणी । आकाश इव निर्मूर्तिरग्राह्यश्चर्मचक्षुषाम् ॥ १६५ ॥
अथ परमेश्वरस्याऽद्भुतातिशयत्वं प्रदर्शयति-यो गुणी त्रिषु कालेषु अतीतानागतवर्तमानकालेपु, प्रमाणविज्ञेयोऽनुमानादिप्रमाणपरिज्ञेयः, अस्तीत्यन्वयः, अत्रानुमानादिना सर्वज्ञसाधनं श्रीस्याद्वादरत्नाकरादेरवधार्यम् , यः किं०, आकाश इव निर्मूर्तिः रूपरसगन्धस्पर्शात्मकमूर्तिरहितः, अत एव चर्मचक्षुषां वाह्यदृशाभग्राह्योऽस्तीति भावः ॥ १६५ ॥
अथाऽमूर्तत्वं व्योमवद् निरूप्य तद्वदेवाऽनन्तत्वं निरूपयतिजराधिविविधव्याधिक्लेशावेशादिकारणम् । य आकाश इवादत्ते जन्माऽनन्तो न जातुचित्॥१६६॥
योऽनन्तः प्रान्तरहितः, न जन्म आदत्तेऽपुनर्भवो भवतीत्यर्थः, जन्म किं० जरा च आधिश्च विविधो व्याधिश्च तैः कृत्वा यः क्लेशावेशादिस्तस्य कारणमिति ॥ १६६ ॥ न स्पृश्यो रजसाऽऽदर्शप्रतिबिम्ब इवास्ति यः। न च भेद्यो न च च्छेद्यो योऽस्ति भानोरिवाऽऽतपः॥१६७॥
तथा यत एवाऽमूर्तोऽनन्तस्तत एव यो रजसा पापेन, पांसुना वा, न स्पृश्योऽस्पर्श इत्यर्थः, आदर्श प्रतिविम्ब इव दर्पणसंक्रान्तप्रतिरूपमिव, रजसापि स्पष्टुं न शक्यते, तत एव