SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ २४ विजयमस्त्याम् । इतीति किम् , यद् यस्मात्कारणात् टङ्ककोटिखननात् अथ मे मम असुखं न भावीति भावः ॥२३॥ यत्रोत्तमाचरणजीवितवित्तिविद्या____ व्यापारवंशवसवो निवसन्ति लोकाः। . ... कर्तुं पुनः कृतयुगं कृतनिश्चयेन बीजं न्यधायि विधिनेव तदंशपुंसाम् ॥२४॥ यस्मिन् देशे लोका निवसन्ति इत्यन्वयः । किं०, उत्तमाचरणजीवितवित्तिविद्याव्यापारवंशवसवः । अत्र उत्तमशब्दस्य प्रत्येकं प्रयोगः । तेन उत्तमानि उत्कृष्टानि आचरणजीवितवित्तिविद्याव्यापारवंशवसूनि चरित्रायुर्विचारज्ञानव्यवहारकुलधनानि येषां ते । पश्चिमानोत्प्रेक्षते कविः-पुनः कृतयुगं कर्तु, कृतनिश्चयेन निर्मितपतिझेन, विधिना धात्रा, तदंशपुंसां कृतयुगांशधारिणां पुरुषाणां, बीजम् उत्पत्तिनिमित्तम् , न्यधायि स्थापितमिति । शेषं सुगमम् ॥२४॥ स्वैरं भ्रमन्नमरवमनि वीक्षणीयं क्षोणीतलं विविधविस्मयमीक्षमाणः । एति स्म धर्मभृति नीवृति नारदर्षि स्तत्रैकदा कलहकौतुककेलिकन्दः ॥२५॥ स्वैरं यथेच्छम् , अपरवमनि नभसि, भ्रमन् विचरन्, क्षोणीतलं भूमण्डलम् । कि०, विविधविस्मयं रिचित्रविस्मयं.
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy