SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः। ३५५ नं प्रति अनीयत आनीतं, श्रादैः कि०, उत्साहकारी य उत्सवस्तत्रोत्सुकैः ॥९॥ एषा जयोतिर्जिनशासनस्थिति स्मेरेक्षणाभालमणीविशेषकः । पृथ्वी पृथिव्यां प्रथिमानमासदत् तैलस्य बिन्दुः पयसीव तत्क्षणात् ॥ १० ॥ एषा वर्णिता, जयोक्तिर्विजयवाग् , कि०, जिनशासनस्थितिरेव स्मरेक्षणा स्त्री तद्भाले मणीविशेषको रत्नतिलकं, स्त्रीलिङ्गवाच्यस्य शब्दस्य पुंलिङ्गवाच्यं विशेषक इति विशेषणमदुष्टं 'लिङ्गभेदं तु मेनिरे' इति वचनात् पुनर्जयोक्तिः किं०, पृथ्वी विस्तीर्णा, अत एव पृथिव्यां प्रथिमानं विस्तारभावं आसदद, यथा तैलस्य विन्दुः पयसि वारिणीति दृष्टान्तः ॥१०॥ सर्वोऽपि संघो जिनशासनोन्नते रुक्त्याऽनया प्रीतिमवाप निर्भरम् । अप्रीतिमुच्चैश्च कुपाक्षिकव्रजः कोकश्च घूकश्च वेरिवोदये ॥ ११ ॥ जिनशासनोभतेरनया उक्त्या सर्वोऽपि संघस्तपागच्छसत्कः, प्रीतिमवाप प्राप्तवान् , च पुनः, कुपाक्षिकवजः कुतीर्थिकनिकरः, अप्रीतिमवाप, यथा रवेरुदये सति, कोकघूको चक्रवाकोलूकी, प्रीतिमप्रीतिं च क्रमेण प्राप्नुत इति दृष्टान्तदयम् ॥ ११ ॥ मत्वाऽनयोक्त्याऽत्यमलामहम्मदा वादं पुरी द्राक् शरदेव दीर्घिकाम् ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy