SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ विजयप्रशस्त्याम् । सर्वज्ञरागकृदवाप्तरसेशसङ्गा गङ्गेव गौरजनि यस्य मनोज्ञवर्णा ॥ १ ॥ सः नाभः सप्तमकुलकराद् भवो जन्म यस्य स नाभिभवों वृषभः पुरुषोत्तमोऽर्हन् वो युष्माकं 'श्रेयस्तु मङ्गले धर्मशस्तयोः' इत्यनेकार्थत्वात् श्रेयांसि मङ्गलानि, पुण्यानि वा; प्रशस्तानि वस्तूनि वा सृजतु करोतु इति क्रियाकारकसंपर्कः । नाभिभवः किंलक्षणः, महांश्चासावीशश्चेति महेशो महास्वामीत्यर्थः। पुनः किं० सत्योपलक्षितपुरः सत्येन सम्यग्धर्मेण उपलक्षितमलंकृतं 'पुरं शरीरे नगरे गृह-' इतिश्रीहेमचन्द्राचार्यवर्यवचनात् पुरं शरीरं यस्य सः। यत्तदोर्नित्यं सहचारित्वात् स क इत्याकाड्क्षायामाह-सर्वज्ञेति। यस्य गौः वाग् गलेचाऽजान जातेत्यन्वयः। अथ गोगङ्गायाश्च विशेषणद्वारा समानधर्मताऽभिधीयते-गौः गङ्गा च किं० सर्वेषां ज्ञानां पण्डितानां रागकारिणी, पक्षे सर्वज्ञो महादेवस्तस्य रागकारिणी। तेन हि गङ्गा मूर्द्धनि धृतेतिभुतेः। पुनगौशा च किं० रसानां शृङ्गारादीनां ईशः स्वामी रसेशः शान्तनामा रसः तेन तस्य वाऽवाप्तः प्राप्तः सङ्गो यस्या यया वा सा। गकापक्षे रसानां जलानां ईशो रसेशः समुद्रस्तेन तस्य वाऽवाप्तः सङ्गो यस्या यया वा सा। अथवा रसायाः पृथिव्या ईशो रसेशोOद्भरतो राजा तेनावाप्तः सङ्गो यस्याः सा । यतो भरतस्य भगवतः पुत्रत्वेन श्रावकत्वेन च भगवद्गवां सङ्गः संगच्छत एवेति । गङ्गापक्षेऽपि दिग्विजयं कुर्वाणेन तेन नवनिधानाविर्भावावसरे शरदा सहस्रं यावन्नवनवैभॊगैर्गङ्गा मुक्तति तेन सह गङ्गायाः समः
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy