SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ४२६ विजयप्रशस्त्याम्। सुस्पष्टलट्टयोत्तरे तारयाऽथ प्रदक्षिणम् ।। पदे पदे निधानानि पान्थानां पथि यदृशा॥२२॥ अथ तारया लट्टया मरुस्थलीप्रसिद्धरूपारेलिनाम्न्या पक्षिण्या, प्रदक्षिणमुत्तेरे दक्षिणोत्तीणीन, यशा यस्या दर्शनेन. पान्थानां पदे पदे निधानानि स्युः ॥ २२ ॥ तस्थुषी दिशि शान्तायां पिङ्गलाऽवक् प्रदक्षिणम् । शुभायां मयि पान्थः स्याद् मदर्तेव बलीतिटक्॥२३॥ शान्तायां दिशि तस्थुपी स्थिता सती, पिङ्गला भैरवी चीवरीति गूर्जरदेशप्रसिद्धा महाशकुनरत्नभूना, प्रदक्षिणम् , अवग् जगौ, मयि शुभायां सत्यां, पान्थः, मद्भव महेश्वर इव, अथवा "पिङ्गला कुमुदस्त्रियाम्" इत्यनेकार्थवचनात् कुमुदनामदिग्गजइव, बली वलवान् स्यात् , इति दृग् बुद्धिर्यस्याः सेति ॥२३॥ हरिणा उत्तरन्ति स्म प्रभोरस्य प्रदक्षिणाः।। चित्रमेते भविष्यन्त्यविषमा विषमा अपि ॥२४॥ अस्य प्रभोः गुरोः, प्रदक्षिणा वामतो दक्षिणाः, हारेणा उत्तरन्ति स्म उत्तीर्णा इति, इदं चित्रम्- यदेते हरिणा विपमा अपि, अविपमाः, इत्यप्तौ विरोधः, विरोधपरिहारस्तु-विषमा विषमसंख्याका एकत्रिपश्चसप्तादिरूपसंख्याका हरिणाः श्रेष्ठाः, यदुक्तं शकुनाणवे __ "एको वा यदि वा त्रीणि पञ्च वा सप्त वा पुनः । · पुरुषस्य भाग्यकाले हरिणा यान्ति दक्षिणाः" ||१|| इति ॥ २४ ॥ सपर्याणोऽथ तुरगो विना सादिनमभ्यगात् । प्रभुप्रीत्याऽऽशु प्रहितो मघोनोच्चैःश्रवा इव ॥२५॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy