________________
सप्तमः सर्गः। भटोहटे खडुलतेव दीप्तिभृत् ॥ ८॥ इह कमाजन्मनि गुरौ श्रीविजयसेनसूरी, ऋषिराट्पदं मूरिपदं, किं०, ससम्पदा सश्रीणां शस्तमुदा, पदं स्थानं, अधिकां शोभा वभारेत्यन्वयः । पुनः किं० पदं, वैरिशोर्विषमिव विषं, तदुःखदायित्वात् यथा भटोटे महासुभटे, दी प्तिभृत् कान्तिमती, खड्गलता कपाणवल्लिः, शोभते, साऽपि वैरिदृग्विषमिति तुल्यं विशेषणम् ॥ ८० ॥
जना अनूचानपतिं गुरुं च तं ___ दृष्ट्रेत्यवोचन मुदिताः परस्परम् । अथास्य गच्छस्य धुरं धरिष्यतः
समाविमौ सवृषभाविवानसः ॥ ८१ ॥ तं गुरुं तं चाऽनूचानपतिं दृष्ट्या परस्परं मुदिताः सन्तो जना इत्यवोचनित्यूचुः । उत्तरार्दैन तदेवाह-अथाऽस्य तपागच्छस्य धुरं इमौ गुरुशिष्यो, समौ तुल्यौ, धरिष्यतः, काविव कस्येत्याह-सवृषभौ अनसः शकटस्येवेति दृष्टान्तः ॥ ८१॥
असावनूचानपतिः पदं श्रिया- मेषां गुरूणां शुशुभे समीपगः ।
एकालवालस्थितिभाग् नवोद्गमः - संतानशाखी हरिचन्दनेन किम् ? ॥ ८२ ॥
श्रियां पदं स्थानं, असौ अनूचानपतिः श्रीविजयसेनाचार्यः, एषां गुरूणां श्रीहीराविजयसूरीणां, समीपगः पार्थवी, शुशुभे इत्यन्वयः । किमुत्प्रेक्ष्यते--हरिचन्दनेन कल्पद्रुणा सह एकालवालस्थितिभाग एकस्थानस्थायी, पुनः, नवोद्गम उद्गच्छन् सन्तानशाखी पञ्चमः कल्पद्रुम इवेति ॥ ८२ ।।