SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः । संघाशिषा मञ्जुलमङ्गलालीमूलेन सज्जीकृतसाहसानाम् ॥ ४३ ॥ श्रीमिश्रचिन्तामणिमुख्यभट्ट सभ्येषु पौरेषु च सत्सु सत्सु । वादे सहानेन दिगम्बरेण ३१३ जयोऽभवल्लोकमुदब्धिचन्द्रः ॥ ४४ ॥ 9 तेषां प्रभ्रूणां गुरूणां, किं०, प्रतिभाप्रकर्षप्रद्योतनोद्योतिमुखाम्बुजानां प्रज्ञोत्कर्षादित्योद्योतवद्वदनकमलानां पुनः किं०, सज्जीकृतं साहसं सवं यैस्तेषां कया, संघाशिषा चतुर्विधसङ्घसंबन्धिमङ्गलशंसनेन, किं०, मञ्जुलमङ्गलालीमूलेन कमनीकल्याणश्रेणिकारणेनेति ॥ ४३ ॥ पुनः केषु पौरेषु नागरेषु, किं०, सत्सु पण्डितेषु साधुषु वा, किं०, श्रीमिश्रचिन्तामणिनम्ना मुख्यो भट्टः सभ्यो येषु तेषु श्री मिश्रचिन्तामणिमुख्यभट्ट सभ्येषु सत्सु भवत्सु, अनेन दिगम्बरेण सह, वादे जायमाने सति, जयोऽभवद् बभूव किं०, लोकमुदब्धौ जनप्रमोदपयोषौ चन्द्रस्तदृद्धिकारित्वादिति युग्मव्याख्येयम् ॥ ४४ ॥ " दृष्ट्टुनमेनं सरसीजपाणि पद्मोत्सवं द्रागुदयं प्रपन्नम् । श्रीभूषणो कैरविणीसमूह इवाभवद् मुद्रितवत्रकोशः ॥ ४५ ॥ एनं इनं स्वामिनं सूर्ये वा, उदयं प्रपन्नं दृष्ट्रा, किं०, सरसीजवत् पाणी यस्य तं, पक्षे सरसीजं पाणौ यस्य तं पुनः ४१
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy