SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३१२ विजयप्रशस्त्याम् । येन तत् तदुपकण्ठवत्तित्वादितिः पुनः, श्रीपूरितं सुरतिबन्दिरं तेलञ्चकुः प्राप्ता इति ॥ ४० ॥ पौरैरथास्मिन्नगरे प्रवेशो त्सवा अतुच्छा विहिता यथेच्छम् । ज्येष्ठस्थितिं ते गुरवोऽथ तस्थु स्तत्रैव धर्मा इव मूर्तिमन्तः ॥ ४१ ॥ अथाऽस्पिनगरे पौरैर्नगरमहाजनैः, प्रवेशोत्सवाः यथेच्छं यथारुचि, तथा विहिता इति तत्रैव नगरे सूरतिबन्दिरे ते गुरवोऽथ ज्येष्ठस्थितिं चतुर्मासीं तस्थुः इवोत्प्रेक्ष्यते मूर्तिमन्तो धर्मा इव शरीरिणः साधुधर्मा इति ॥ ४१ ॥ अथ तत्र किं जातमित्याह श्रीभूषणो नाम दिगम्बरेशस्तेषां गुरूणां कमलोत्सवानाम् । तत्राथ शोभामसहिष्णुरुष्णभासामिवोलूकयुवा बभूव ॥ ४२ ॥ अथ चतुर्मासकानन्तरं तत्रैव तस्थुषां तेषां गुरूणां उभासां सूर्याणामिव कमलोत्सवानां गुरुपक्षे कमलाया लक्ष्म्याः उत्सवो येभ्यस्तेषां सूर्यपक्षे कमलानां कजानां उत्सव इति । शोभां श्रियं, असहिष्णुः अक्षमिता, क इत्याह- श्रीभूषणो नाम्ना दिगम्बरेशो दिक्पटाचार्यः, इति क इव बभूवेति प्राह--उलूकयुवा घूक इवेति ॥ ४२ ॥ तेषां प्रभूणां प्रतिभाप्रकर्षप्रद्योतनोद्योतिमुखाम्बुजानाम् ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy