SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ____ अष्टमः सर्गः। ३१९ वसति सति भीः सौपर्णेये न पन्नगरिव । . अभवदसुखं सत्यासन्नं न हीरगुरौ गुरौ जलधिसविधे श्रीगन्धारे पुरे परमोदये ॥ ५७ ॥ इव यथा, धाम्नि गेहे, सुरतरौ कल्पपादपे सति, दौःस्थ्यसमुद्भवा दारिद्रयजाता, अर्तिः पीडा, न स्यात् । तथा सौपर्णेये गरुडे, वसति सति, इव यथा, पन्नगभूः भीः सर्पोद्भवा भीतिः, न स्यात् । तथा जलधेः समीपं यत्र तत्र जलधिसविधे समुद्रान्तिकवर्तित्वात् श्रीगन्धारे पुरे, पुनः किं०, परः प्रकृष्टः मायालक्ष्म्या उदयो वाहनादीनां क्षेमेणाऽऽगमनाद् यत्र, अथवा परमः प्रकृष्ट उदयो यत्र तत्र, हीरगुरौ किं०, गुरौ महति सति चतुर्मासीमासीने सति असुखं आसन्नं नाभवत् सातमेव जातमिति ॥ ५७॥ अथानूचानान् वर्णयतितपति तपने याऽम्भोजानां सरस्यतलार्णसि प्रणयिनि मृगीनेत्राणां या निशान्तिकवर्तिनि । अजनि जनितामन्दानन्दा सदा रतिरङ्गिनां स्थितवति सुखं साऽनूचाने पुरोत्तमपन्तने ॥ ५८ ॥ ___ तपने भानौ, तपति सति, सरसि तटाके, किं०, अतलानसि अगाधजले, या अम्भोजानां भवति, पुनर्मगीनेत्राणां स्त्रीणां, या निशान्तिकवर्तिनि निशायां अन्तिकवतिनि, अथचाऽनिशं नित्यं अन्तिकवर्तिनि समीपस्थायिनि सति, प्रणयिनि भईरि भवति, सा रतिः प्रीतिः, सदा निरन्तरं, पुरोत्तमपत्तने अनूचाने श्रीविजयसेनसूरौ स्थितवति सति, सुखमिति कियाविशेषणं, अजनि जाता, केषां, अङ्गिनां तत्रत्यसङ्घजनानां,
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy