SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ४२. विजयपशस्त्यान् । तदोकसि तस्य श्रेष्ठिनो गेहे, अलमत्यर्य, आत्मदर्शा दर्पणाः, किं० तेजखिनो ज्योतिष्मन्तः। पुनः किं० मङ्गलानां मञ्जु मनोझं, बीजं निबन्धनं, रेजुर्बेजुरित्यन्वयः । इवोत्प्रेक्ष्यते, एते भासामधीशाः सूर्याः । किं० परिवारस्य परिच्छदस्य या पडा लक्ष्मीस्तस्या य उल्लासस्तस्य प्रदानैकपराः; पक्षे परिवारभूतानि यानि पद्यानि कमलानि तेषां उल्लासप्रदानकपराः परिवारपयोल्लासपदानैकपरा इति ॥४६॥ भान्ति स्म नीरन्ध्रमुदः पुरन्ध्य___ स्तस्यालये गीतमनोज्ञगीताः। उद्यानभूमाविव कान्तकण्ठ्यः पिक्यः खरं पञ्चममुच्चरन्त्यः ॥ ४७ ॥ तस्य श्रेष्ठिन आलये नीरन्ध्रमुदः निबिडहर्षाः, पुरन्ध्यः कुटुम्बिन्यो भान्ति स्म । कीदृश्यः, गीतानि गानगोचरीकृतानि, मनोज्ञानि हृदयङ्गमानि, गीतानि गेयपदानि याभिस्ताः गीतमनोज्ञगीताः। दृष्टान्तमाह-इव यथा, उद्यानभूमौ वनावनौ कान्तकण्ठ्यः प्रियध्वनयः, पिक्यः कोकिलाः, सप्तसु षड्जऋषभगान्धारमध्यमपञ्चमधैवतनिषधनामकेषु खरेषु पञ्चमं संशया सङ्ख्ययाऽपि च खरं ग्रामरागाद्यवतारमूलं उच्चरन्त्य इत्युद्विरन्त्यः ॥ ४७॥ तदङ्गणे रङ्गिणि पञ्चवर्ण प्रोत्फुल्लपुष्पप्रकरो विरेजे। सोमारसौम्यासितशुक्रसूरि तारादिराजी सुरवर्मनीव ॥ ४८ ॥ तदङ्गणे तस्य श्रेष्ठिनो गृहागणे, किं० रङ्गिणि हर्षिणि,
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy