SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३७३ दशमः सर्गः। तेन, पुनः किं०, नित्यमात्मरूपेण स्वतुल्येनेति, पुनः सदाऽवियोगिना वियोगवर्जितेन, गर्भो बभ्रे धृतः, किं०, वनभूविभूषणः पुत्रपक्षे वनभुवो गेहभूमेः, सिंहपक्षे वनभुवः काननभूमविभूषणः "वनं गेहे काननेऽपि" इत्यनेकार्थत्वादिति ॥ ५२ ।। अथ त्रिभित्तैर्गुरुजन्मवर्षमासंग्रहाद्याहवर्षे चतुष्पावकपार्थिवे त्रयो दश्यां दशाश्वद्युतिदीप्रदिग्भृति । लमे वृषे वासरराजवासरे ___ मासे सहस्ये विधिभे विधौ सति ॥ ५३ ॥ इन्दौ विलग्ने युवतौ च वाक्पतौ ___ माहेयदैत्यार्चितयोरलौ सतोः। राशौ झषाख्ये च तथा विधुन्तुदे __ चापे बुधकोडसहस्ररश्मिषु ॥ ५४ ॥ प्राचीव बिम्बं तरणेस्तमोपहं राकेव चन्द्रं कुमुदुन्नतिप्रदम् । आमोदमूलं सुषुवेऽथ सा सुतं पुत्रीव जह्नोस्तपनीयपङ्कजम् ॥ ५५ ॥ वर्षे, किं०, चत्वारः, पावकास्त्रयश्च, पार्थिवाः षोडश च, एतेऽङ्का यमिस्तस्मिंश्चतुष्पावकपार्थिवे वामगतिमीलिते १६३४ वर्षे इति, पुनस्त्रयोदश्यां तिथौ, किं०, दशाश्वश्चन्द्रस्तस्य धुत्या कान्त्या दीमां दिशं बिभर्तीति तत्र, पुनः, लग्ने वृषे वृषनाम्नि लग्ने वहमाने सति, पुनः, वासरराजस्य वासरे रविवार सति, पुनः, सहस्ये पोषै मासे सति, पुनः, विधिमे रोहिणीनामके
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy