SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः। भीमाभिधोऽभूत् तनयश्च तस्य जाताऽस्य लालूरिति नाम जाया ॥ २० ॥ तदीयः सूनुः समराख्यस्तस्याङ्गजन्मार्जुनाख्योऽजनि जातः, तस्यार्जुनस्य तनयो भीमाऽऽख्योऽभूत् , अस्य च लालूरितिनाम्नी जाया पत्री जाता ॥ २० ॥ .. यहजयः शक्रपुलोमपुत्र्योः पुत्रस्तयोः श्रीजसिआभिधोऽभूत् । तस्य स्मरस्येक रतिर्बभूव __ भार्या सदाऽऽर्या जसमुख्यमादेः ॥ २१॥ यद् यथा, शक्रपुलोमपुज्योरिन्द्रेन्द्राण्योः, जयो नामा सुतः, तथा तयोः श्रीजसिआख्यः पुत्रोऽभूत् । तस्य भार्या जसमुख्यमादेः जसमादेनानी, बभूवः रतिरिव यथा स्मरस्येवेति दृष्टान्तः ॥२१॥ . स्कन्दाऽऽखुयानाविव शम्भुगौर्योः श्रेष्ठौ तयोडौं तनयावभूताम् । . ज्यायान् महेभ्यो वजिआभिधानः श्रीराजिआहश्च ततो लघीयान् ॥ २२ ॥ __यथा शम्भुगोर्योरीघरपार्वत्योः, स्कन्दाऽऽखुयानौ कार्तिकेयगणेशौ पुत्री, तथा तयोर्जसिआजसमादेनाम्नोः, द्वौ तनयावभूताम् । तयोर्नान्नी माह-ज्यायान् वृद्धो वजिआभिधानो महेभ्यः, च पुनर्लघीयान् रजिआह इति ॥ २२ ॥ आभ्यां सुताभ्यां मुदमाप पित्रोश्चित्तं चिरं चित्तजशोभनाभ्याम् ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy