SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ३९० विजयप्रशस्त्याम् । सद्योऽश्विनीभास्करयोरिवर्भुभर्तुर्भिषग्भ्यामतिरागवद्भ्याम् ॥ २३ ॥ अभ्यमेिताभ्यां सुताभ्यां किं०, चित्तजः स्मरस्तद्वत् शोभनाभ्याम् पित्रोजननीजनकयोः, चित्तं मुदमाप । दृष्टान्तो यथा-अश्विनीभास्करयोः ऋभुभर्तुः शक्रस्य भिषग्भ्यामश्विनीपुत्राभ्याम् किं०, अतिरागवद्भ्यां तयोर्भृशं स्नेहित्वादिदं विशेषणम् स्ववैद्याभ्यां यथाऽश्विनीसूर्ययांश्चित्तं मुदितं तथा ताभ्यां तयोरिति ॥ २३ ॥ ज्येष्ठस्य जाया विमलाऽभिघाऽभूदन्यस्य चासीत कमलाऽभिधाना । भ्रात्रोर्मिथः प्रीतिरभूद् वसन्तसंकल्पयोन्योरिव चातिबही ॥ २४ ॥ ज्येष्ठस्य वजिरूपस्य जाया भार्या विमलाऽऽख्याऽभूत्, अन्यस्य च लघोः कमलाऽऽख्याऽभूत् । च पुनः, तयोर्भ्रात्रोर्वसन्तसङ्कल्प यांन्यांमधुमन्मथयोरिव, मिथः अतिवडी प्रीतिरभूदिति ॥ २४ ॥ श्रीचक्रपाणेरिव पुष्पपत्री ज्येष्ठस्य पुत्रोऽजनि मेघजीति । एतः स्म गन्धारपुरादथ हौ बन्धु च खम्भाइतबन्दिरं तौ ॥ २५ ॥ श्रीचक्रपाणेर्मारायणस्य यथा पुष्पपत्री कन्दर्पस्तथा ज्येष्ठस्य बजिआख्यस्य पुत्रो मेघजी इति नामाऽजनि । अथाऽस्यदा गन्धारपुरां तौ द्वौ बन्धू खम्भाइतबन्दिरं एतः स्म आगतौ ॥ २५ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy