SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः। ३९७ तत्रापि तावात्मभुजार्जितानां .श्रीणां फलं धर्मनियोजनाख्यम् । सम्यक् समीहाविषयं सृजन्तौ क्षेत्रेषु वित्तं वपतः स्म नित्यम् ॥ २६ ॥ तौ भ्रातरौ, तत्रापि स्तम्भतीर्थे, आत्मभुजार्जितानां वहस्तोपार्जितानां, श्रीणां धर्मनियोजनाख्यं धर्मकर्मव्ययकरणलक्षणं, फलं समीहाविषयं सृजन्तौ वान्छागोचरीकुर्वन्तौ, सप्तसु नवसु वा क्षेत्रेषु, वित्तं वपतः स्मेति ॥ २६ ॥ त्यागैः सरागैः सुकृतप्रियेषु पात्रेषु दीनेषु दयात्मभिश्च । आसीत् प्रसिद्धिः प्रथमा नगर्या तस्यां तयोर्बान्धवयोश्च बह्वी ॥ २७ ॥ सुकृतप्रियेषु पुण्यात्मसु, पात्रेषु त्यागैर्दानैः, किं०, सरागैधर्मरागयुक्तर्भक्तिदानैरिति, च पुनः, दीनेषु जनेषु दयाऽऽत्मभिर्दयादानैरिति, त त्यां नगर्या त्रम्बावत्यां, तयोबान्धवयोः प्रसिद्धिः ख्यातिः, किं०, वही, अत एव प्रथमा मुख्या, आसीत् ॥ २७॥ ख्याति वो भर्तुरकब्बरस्य पर्षन्मृगाक्षीस्तनहारिहारः। जज्ञे पयोधौ च तयोः फरङ्ग देशेशसंसल्ललनाललाम ॥ २८ ॥ तयोर्धात्रोः, अकबरस्य भुवो भर्तुर्भूपतेः श्रीअकबरशाहः, वर्षन्मृगाक्षीस्तनेषु हारी मनोहरो हारस्तत्तुल्या ख्यातिरभूत , च
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy