________________
३९२
विजयाशस्त्याम् ।
मत्यन्तमीशं स्वमिवात्मपट्टे । पुत्रो मृगेन्द्रस्य मृगेन्द्र एव
यजायते तत्किमु चित्रमत्र ? ॥ १३ ॥ एनं विनेयमत्यन्तमीशं गच्छभारनिर्वाहकत्वात् समय, आत्मपट्टे स्वमिव भट्टारको हारसूरिः, अबोधि ज्ञातवान् । तदेव द्रढयति-मृगेन्द्रस्य सिंहस्य, पुत्रो यद् मृगेन्द्र एव जायते अत्रार्थे किमु चित्रं ?, अथवा, अत्र जगति तत्किं चित्रं ? अपि तु नेति ।। १३ ॥ आसीदनूचानपतेर्महिम्नो
भट्टारकस्थानमुपेयुषः श्रीः। स्यादस्य यातस्य गुरोः पदे श्री
धिष्ण्यस्य यत् सा न हि विस्मयोऽत्र ॥१४॥ अनूचानपतेः, किं०, भट्टारकस्थानं पूज्यपादमूलमुपेयुषः, महिम्नो महत्त्वस्य, श्रीरासीजाता । अस्य श्रीधिष्ण्यस्य कमलालयस्याऽऽचार्यस्य, गुरोः पदे यातस्य श्रीहीरगुरुपादमूले माप्तस्य, यत् सा श्रीर्भवति, अत्र को विस्मयः कोऽपि न हि; यतो गुरुपदान्तिके प्राप्तस्य शिष्यस्य श्रीः स्यादेवेति, पक्षे श्रीधिष्ण्यस्य श्रिया युक्तो यो धिष्ण्यः शुक्रस्तस्य श्रीशुक्रग्रहस्य, गुरोः पदे बृहस्पतेः स्थाने मीनराशौ, यातस्य या श्रीरुचत्वलक्षणा स्यात् , तत्र विस्मयः कः? अपि तु न कोऽपीति। एतदर्थसंवादि काव्यं यथा." आगतस्य निजगेहमप्यरेगौरवं विदधते महाधियः।
मीनमात्मसदनं समीयुषो भार्गवस्य गुरुरुचतां ददौ" ॥१॥ इत्याधुक्तः ॥१४॥