SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ इतीयः सर्गः। १५ यः पूज्यैः, किं०, अम्भोजकरैः कमलहस्तैः, कोमलकरत्वादिति, पक्षे अम्भोजकरैः सूर्यैरिव, कीदृशैः, एकत्र सामोदः सहर्षः पद्माया लक्ष्म्या उत्सवः, अन्यत्र सामोदः सगन्धः पद्मानां पङ्कजानां उत्सवः, तत्कारिणः पादाश्चरणा एकत्र, अन्यत्र तु पादाः किरणा येषां तैः सामोदपद्मोत्सवकारिपादैः; मार्गाः पन्थानः, यथा तथा एकादशाङ्गीप्रतयः उपलक्षणत्वाद् द्वादशोपाङ्गपुस्तका अपि विशुद्धा दूषणवर्जिताः कृताः, कथं, आहादितच्छेकमिति क्रियाविशेषणम् । पुनः कथम् , अनेकवारमिति पुनः पुनर्न सकृदेवेति तत्त्वम् । अत्रायमाशयः--यथा सूयर्मार्गाः शुद्धाः क्रियन्ते, तथा यैः श्रीपूज्यैरेकादशाङ्गद्वादशोपाङ्गप्रतयः शुद्धाश्चक्रिरे । वारं वारमिति शेषः ॥ ५६ ॥ अभङ्गवैराग्यतरङ्गरङ्गा आजन्म पूज्या विकृतीय॑मुञ्चन् । पञ्चापि पञ्चेषुमदप्रपञ्च पञ्चाननक्रीडनकन्दरा ये ॥ ५७ ॥ __ ये पूज्याः, किं०, अभङ्गोऽक्षयो यो वैराग्यतरङ्गः वैरङ्गिकत्वकल्लोलस्तत्र रङ्गो रक्तता येषां ते अभङ्गवैराग्यतरङ्गरगाः, आनन्मेत्याभवं, जीवितावधीति यावत् । पश्चापि दुग्धदाधिगुडपक्का तैलाख्या विकृतीः, किं०, पश्चेषोः स्मरस्य मदनपश्चो गर्वविस्तारः स एव पञ्चाननः केसरी तत्क्रांडनाय कन्दरा इव कन्दरा गुहास्तद्ग्रहणे हि तत्प्रादुर्भावादिति, व्यमुश्चन् न नगृहुः, इति ये पञ्चविकृतीस्त्यक्तवन्त इति भावः॥ ५७ ॥ __यान् श्रीसुधर्मप्रतिरूपरूपान् शुद्धस्वरूपान् सुगुरूनवाप्य ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy