________________
द्वादशः सर्गः। नवानि नव यस्यांहिन्यासे पद्मानि भान्त्यलम् । स्वामिन्नादत्व नो वक्तुमित्यागुः किं कुनाभयः॥१९३॥
यस्यांहिन्यासे पदस्थापने, नवानि नवसंख्याकानि च, पमानि भान्ति शोभन्ते, किमित्युत्प्रेक्षायाम् , उत्प्रेक्ष्यते-कुनाभयो नवाऽपि निधयः, इति वक्तुं आगुः आगताः, इति किं०, हे स्वामिन् ! नोऽस्मान् आदत्स्व त्वं गृहाणेति ॥ १९३ ॥ घनच्छायः स्फुरत्पत्रश्चैत्यद्रुर्यस्य भासते । प्रभुप्रीत्यै समायातो नन्दनस्येव नन्दनः ॥ १९४ ॥
शिरसि इत्यध्याहार्य, यस्य शिरसि चैत्यगुरशोकवृक्षः, भासते इति, कीदृशः, घना निचिता च्छाया यस्य सः, पुनः, स्फुरन्ति पत्राणि यस्य सः, उत्प्रेक्ष्यते-प्रभुप्रीत्यै नन्दनाख्यस्य वनस्य, नन्दनः पुत्रः, समायातः प्राप्त इति ॥ १९४ ॥
यः सिंहासनमध्यास्ते स्वर्णरत्नविनिर्मितम् । चण्डांशोमण्डलमिव काञ्चनाचलचूलिकाम् ॥१९५॥
यः प्रभुः, सिंहासनं स्वर्णरत्नाभ्यां विनिर्मितं रचितं, अध्यास्तेऽधितिष्ठति, यथा-चण्डांशोः सूर्यस्य, मण्डलं काञ्चनाचलस्य मेरोश्चूलिकां अध्यास्ते इति दृष्टान्तालतिः ॥ १९५॥
भवन्त्यधोमुखा यस्य कण्टकाः पथि गच्छतः । विद्यया दलितोन्मादा वादिबाता इवाऽधिकम्॥१९६॥
यस्य पथि मार्गे, गच्छतः कण्टका अधोमुखा नीचैःकृतानना भवन्ति, उत्प्रेक्ष्यते-विद्यया ज्ञानातिशयेन, दलितः खण्डित उन्मादो येफ ते, एवंविधा वादिबाताः परवादिसमूहा इव, ये हि दलितदीस्तेऽधोमुखा एव भवन्तीत्युत्प्रेक्षा,