SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४७० विजयप्रशस्त्याम् । न भवन्ति सदा यस्य महिम्नाऽमी उपद्रवाः । कर्मघातभवा एकादशैतेऽतिशयाः प्रभोः ॥ १९० ॥ यदाश्रितभूमेः सार्धशतद्वयगव्यूतिप्रमिते क्षेत्रे भगवत्मभावेण रोगाचा वृष्टिवातिवृष्टिश्वेतिथ वैरं च दुर्भिक्षं च मारिश्रेत्यादयः, तथा खपरचक्रयोर्भीर्भयं चेति ॥ १८९ ॥ यस्य महिना यथोक्ता अमी उपद्रवा न भवन्ति, लोकानामिति गम्यं इत्येकादशाऽतिशयाः प्रभोः कर्मघातभवाः केवलज्ञानोत्पत्तिप्रभावसूचकाः ॥ इति युग्मव्याख्या ॥ १९० ॥ अथार्हतः सुरकृतातिशयानुपदिशन् गुरुः परमात्मनो गौरवं निर्दिशति आतपत्रत्रयं मूर्ध्नि परितो वरणत्रयम् । यस्य चिह्नं जगत्रय्यैश्वर्यपालनयोरिव ॥ १९९ ॥ " 9 यस्य परमेश्वरस्य मूर्ध्नि आतपत्रत्रयं छत्रत्रयं तथा परितो वरणत्र पं वपत्रयं भातीत्यध्याहारः, उत्प्रेक्ष्यते जगत्त्रय्याऐश्वर्य पालनं चेत्युभयचिह्नमभिज्ञानमित्र, अयं प्रभुरैश्वर्यत्रयीसद्भावाज्जगत्त्रयीश्वरः, पुनर्वमत्रयीसद्भावाच्च जगत्त्रयीपालकश्वास्तीति ॥। १९१ ॥ चक्रं रुग्दीप्रदिक्चकं महांवेन्द्रध्वजः पुरः । यस्य राज्ययशोलक्ष्मीपुण्ड्रयैवेयके इव ॥ ९९२ ॥ यस्य पुरक्रमिति धर्मचक्र; किं०, रुग्भिः प्रभाभि दिक्चक्रं यस्मात् तत्, चः पुनरर्थे, महानुचैस्तर इन्द्रध्वजश्चलतीत्यन्वयः । उत्प्रेक्ष्यते - राज्यलक्ष्म्या धर्मराज्यलक्ष्म्याः यशोलक्ष्म्याश्च पुण्यैवेयके भालभूषणकण्ठभूषणे इव पुण्ड्रस्थानीयं चक्रं वृत्तत्वात्, ग्रैवेयकाकारवेन्द्रध्वज इति ॥। १९२ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy