SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १३२ विजयप्रशस्त्याम् । ण्या, किं०, अत्यर्थदार्यान्वितया अत्यर्थे गाढं दाढयै भगवदाशायां स्थैर्य तेनान्वितया युक्तया पुनः किं०, सदर्थशक्त्या सती अर्थस्याभिधेयस्य शक्तिर्यत्र तया । कयेवेत्याह--सुरज्ज्वेव सुष्ठु शोभना या रज्जूस्तया सुरज्ज्वा, किं०, अत्यर्थदार्यान्वितया गाढदृढतासंयुतयाः पुनः सुरज्ज्वा किं०, सती अर्थशक्तिः प्रयोजननिष्पादनविषयिणी शक्तिर्यत्र तया सदर्थशक्त्याः उदधे उधृत इति ।। ३३॥ विश्वं स्वकीयेन गवां गणेन व्यधायि यैः सूरिसमाजचन्द्रैः । कुपाक्षिकोक्तिप्रसरत्तमोभिः शुद्धाध्वनिध्यानविदग्धमन्धम् ॥ ३४ ॥ यैः सूरिसमाजचन्द्रैराचार्यसभाशशाङ्कः, कुपाक्षिकाणां कुतीर्थिनां उक्तयो वाक्यानि तान्येव प्रसरन्ति विस्तारवन्ति यानि तमांसि ध्वान्तानि तैः, अन्धं शुद्धमार्गानवलोककमिति, विश्वं जगत्, स्वकीयेन गवां गणेन वाचां निचयेन, पक्षे किरणकदम्बकेन; शुद्धाध्वनो विशुद्धमार्गस्य यद् निध्यानं निभालनं तत्र विदग्धं निपुणं, व्यधायि विनिर्ममे ॥ ३४ ॥ मिथ्यात्वधीध्वान्तभृते समस्ते. विश्वौकसि च्छन्नपदार्थसार्थे । विजृम्भितं यद्वचनैः प्रदीपैरिवोत्तमस्नेहदशामहाढ्यैः ॥ ३५ ॥ मिध्यात्वस्य शुद्धदेवगुरुधर्मा श्रद्धानरूपस्य या धीर्बुद्धिस्वद्रूपं यद् ध्वान्तं तेन भृते, समस्ते विश्वौकसि जगद्गृहे, अतएव पुनः किं०, छनः पदार्थानां सार्थो यत्र तत्र च्छन्नपदार्थ
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy