SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। २७ उत्तुङ्गशृङ्गसुभगः पुरि यत्र घत्ते शोभा समीपभुवि जेषलसंज्ञशैलः। मूर्खाग्ररुद्धविबुधाध्वनि यत्र याम्यो दग्वर्त्मनाऽटति रवी रथभङ्गभीरुः ॥२९॥ यत्र पुरि यस्यां नगर्या, जेपलसंज्ञऔलो जेपलनामा गिरिः, शोभां धत्ते शोभते इति । किं० उत्तुमानि उच्चानि, यानि शृङ्गाणि शिखराणि तैः सुभगो मनोज्ञः । एतद्विशेषणमेव समर्थयवि-मूर्दागः शृङ्गः रुदो विबुधाध्वा आकाशो येन तत्र, यत्र जेपलगिरौ, रविः सूर्यः, अटति याति । केन, याम्योदग्वफ्ना दक्षिणोत्तराध्वना । विशेषणद्वारा तहेतुमाहरयभो भीरुः चकितः इत्यनेन जेषलगिरौ मा मम रयभको भवत्विति धिया सूर्यो दक्षिणायनेनोत्तरायणेन च व्रजतीति विस्तरार्थः ॥२९॥ पूर्ण सुपर्वपटलैरतिरम्यनाना रम्भास्पदं वृषविनोदवरं महाढ्यम् । . वासद्वयं समतमं प्रथमद्वितीय देवौकसोरिव विराजति यत्र पुर्याम् ॥३०॥ यत्र पुर्या, वासय, विराजतीत्यन्वयः । प्रथमद्वितीयदेवीकसोः सौधर्मेशानयोःस्वर्लोकयोरिव । अयोभयमपि समानधर्मविशेषणदारेण विधिनाष्टि-वासदयं किं० पूर्ण पूरितम् । कैः, सुपर्व
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy