________________
२६
विजयप्रशस्त्याम् ।
निर्मापितं पथि दृशोस्तदुपैति रम्य
मद्यापि च स्फुरति तन्महिमा महीयान् ॥ २७॥
प्रद्युम्नसंज्ञेन मधुजित्तनुजेन श्रीकृष्णविष्णुपुत्रेण, यत्र यस्यां नगर्याम्, अभ्यर्णावनिधशिखरे पार्श्ववर्त्तिपर्वतशृङ्गे, जिननेमिचत्यं नेमिनाथजिनौकः, निर्मापितं कारितमस्तीति । तच्चैत्यम्, अथ यावत् । रम्यं मनोहरम्, नेत्रयोर्नयनयोः, पथि मार्गे, उपैति । च पुनः, तन्महिमा किं० महीयान् अतिमहान्, स्फुरति कलावपि देदीप्यत इति ||२७||
"
नव्याञ्जनद्युतिपदं प्रतिमां च तत्र चैत्ये न्यधाद्भगवतः स हृदीव तं स्वे । साऽद्यापि दैवतलतेव हितार्थहेतुः
साक्षाच्छिवासुत इवैत्यतुलं प्रभावम् ॥ २८ ॥
नव्यं स्तवनाई अथवा नव्यं नवीनं यदञ्जनं कज्जलं तद्वद् या तिस्तस्याः पदमास्पदं, प्रतिमां, तत्र प्रासादे, भगवतो नेमेः, न्यधात् स्थापयामास । स प्रद्युम्नः कुमारः । इवोत्प्रेक्ष्यतेः तं भगवन्तमेवः स्वे हृदि निजे मनसि । यतो भगवतो भगवन्मूर्त्तेश्व नान्तरमिति । एनमेवार्थ समर्थयन् पश्चिमार्द्धं प्राह — सेति । सा प्रतिमाऽरिष्टनेमिस्वामिमूर्त्तिः, अद्याप्यधुनाऽपि दैवतलवेव कल्पबल्लिवत्. हितार्थहेतुः कामितकार्यकारिणी, साक्षात् प्रत्यक्षः, शिवासुत इव श्रीनेमिरिव, अतुलं निरुपमम्, प्रभावं माहात्म्यम्, एति प्रानातीति ॥ २८ ॥