________________
१७४
विजयाशस्त्यार। आस्यं मुखं पश्यामि इति त्वरात्मकं औत्सुक्यभृत् , दघि तदा तत्पुरगोपुरे नगरप्रतोल्या, अमिलत् । कि०, औषधीवल्लभदीप्तिसंनिभं चन्द्ररश्मिसदृशं, धवलवर्णत्वादिति ॥४१॥ सिद्धान्नपात्रं परिपूर्णमापतत्
पन्थानमक्ष्णोः स्म नयन्ति सूरयः । सिद्धाः प्रसिद्धाः खमनोरथा इति
प्रोल्लासि चिह्नं किमु मूर्तमागतम् ? ॥४२॥ ततः सूरयः सिद्धानपात्रं अक्ष्णोः पन्थानं नयनपथं, स्म नयन्ति नयन्ति स्मेत्यन्वयः । सिद्धानपात्रं किं०, परिपूर्णमन्यूनं, पुनः, आपतत् संमुखमागच्छत्, किमु उत्प्रेक्ष्यते-प्रसिद्धाःप्रतीताः, खमनोरथाः सिद्धाः सिद्धिमाप्ता इति प्रोल्लासि चिह्न मूर्त मूर्तिमत् आगतम् ॥ ४२ ॥
सौत्रो गुरुग्रन्थिरुदैक्षि सूरिभिः
सभर्तृकस्त्रीशिरसा धृतः पुरः । . मेने तदैवं च यशोविधायिने
. चिकीर्षितं कृत्यमिदं गुणाय नः ॥४३॥ ततः पुरः सौत्रः सूत्रसंबन्धी ग्रन्थिर्गुरुर्महान्, पुनः किं०, सभर्तकस्त्रीशिरसा सधववधूशीर्षेण, धृतः मूरिभिरुदैक्षि दृष्टः,. च पुनः, सूरिभिरेवं तदा मेनेऽमानि । एवमिति किं, इदं चिकीर्षितं कर्तुमीप्सितं, कृत्यं सूरिपदभदानरूपं कार्य, नोऽस्माकं, यशोविधायिने श्लाध्यताकारिणे, गुणाय भावीतिशेषः ॥४३॥ 'दृति वहन्नहिरलं भृतं द्वयो
स्भ्यर्णयोस्तैर्वृषभो निरीक्षितः ।