________________
नवमः सर्गः। अतिशायिनी मुदं समीयुर्महाह ला जाता इति ॥ ३३ ॥ तदा च तेषां क्षितिपात्मजन्मनां
गुरुस्त्रयाणामपि पुण्यतेजसाम् । वृषाशिष द्राग् व्यतरद् हुतिं हवि
र्भुजां द्विजन्मेव महाप्रदायिनीम् ॥ ३४ ॥ तदा तेषां क्षितिपात्मजन्मनां पातिशाहिपुत्राणां, त्रयाणामपि, किं०, पुण्यतेजसा पवित्ररुचां, तदा गुरुर्वृषाशिष धर्मलाभ, व्यतरद् दत्तवान् । दृष्टान्तमाह-यथा द्विजन्मा ब्राह्मणः, हविर्भुजा वहीनां, हुतिं किं०, महाप्रदायिनी तेजःपदायिनी, वृषाशिषं कि०, महपदायिनी उत्सवपदायिनी, वितरति ॥ ३४ ॥
चरित्रमाहारविहारसंलया
श्रयोपवासासनपानगोचरम् । अथ स्वयं प्रेषितपूरुषाननाद्
निशम्य सूरेर्मुमुदे महीपतिः ॥ ३५ ॥ अथ स्वयं प्रेषिताः पूर्व ये मेवडाभिधाना गुरूणामाकारणाय प्रेषितास्तेषामाननाद् मुखात् , सूरेश्चरित्रं वृत्तं, किं०, आहारविहारसंलयाश्रयोपवासासनपानगोचरं आहारो नित्यैकभक्तरूपः, विहारः सूर्योदये सत्येव पादचाररूपः, संलयस्त्रियामायास्तृतीये यामे निद्राकरणरूपः, आश्रयो याचितवसतिवसनरूपः, उपवासा एकस्मिन् मासि जघन्यतः षड्डपवासकरणरूपाः, आसनं मासाष्टके भूमावेवोपवेशनरूपं, पानं तप्तस्यैव पानीयस्येति गोचरं एतद्विषयं, गुरुवृत्तं निशम्य, महीपतिः शाहिः, मुमुदे हर्षमधात् ॥ ३५ ॥