SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ विजयप्रशस्त्याम् । स्फीतानि गीतानि च गायतीह ॥ २० ॥ पुनः, इहास्मिन् पुरे, रामाजने नारीगणे, किं०, संमूत्रितोलाविलासा निर्मितोत्साहोत्कर्षा या लास्यकला नृत्यकलास्तासु, अकुण्ठे निपुणे, पुनः, कलकण्ठकण्ठे कोकिलध्वनौ, मञ्जुलानि यानि मङ्गलानि धवलध्वनिरूपाणि तेषां श्रिया स्फीतानि वृद्धिमन्ति, गीतानि गायति सति ।। २० ।। संघानघोत्साहलतावितान द्रूणामनूचानपुरन्दराणाम् । सानन्दनन्द्युत्सव गुच्छगच्छानुज्ञा मुनीन्द्रद्विरदैरदायि ॥ २१ ॥ इति महोत्सवेषु सत्सु मुनीन्द्रद्विरदैर्मुनिमतङ्गजैः, गुरुभिः अनूचानपुरन्दराणां आचार्येन्द्राणां किं०, सङ्घस्य श्रमणसइस्य योऽनघोत्साहः स एव लतावितानस्तस्य द्रणां तरूणां, तदाधारत्वात् : सानन्दा ये नन्द्युत्सवा नन्दिरूपोत्सवास्तद्रूपा ये गुच्छाः पुष्पस्तबकास्तत्स्थानीया या गच्छानुज्ञा गणसारणावारणाचोदनाप्रतिचांदनाऽऽदेशोपदेशपदप्रदानरूपा, गच्छेश्वर्य साम्राज्यानुमतिरदायि दत्तेत्यर्थः । अष्टभिरन्त्यक्रियं कुलकं व्याख्यातम् ।। २१ ।। ददुर्गणस्यास्य यदाऽनघस्याऽनुज्ञामनूचानवराय पूज्याः । तदा प्ररोहावसतां सतां च चेतस्यभूताममुदां मुदां च ॥ २२ ॥ अनघस्य अस्य गणस्य यदा अनूचानवराय पूज्या गुरुमिश्राः, अनुज्ञां ददुर्दत्तवन्तः तदा किं जातमित्युत्तरार्द्धेनाह ३०४
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy