SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः । तौ दम्पती गृहिजनोचितमत्यजिझं ब्रह्मेति साधु दधतुर्धृतिमत्प्रधानौं ||७४ || ५५. इव यथा, फणिदृशा सर्पदृष्टया दीपप्रभा प्रदीपज्योतिः, तथा सुशीलवृत्या शोभनब्रह्मचर्याचरणेन, निष्पुत्रतादिकं निरपत्यतामसुखं, अघं दुःखं, विनिहन्यते । इति हेतोस्तौ दम्पती, गृहिजनस्यागारिण उचितं योग्यं पुनरतिशयेन, अजिह्मं सरलं, ब्रह्म शीलं दधतुः । तौ पुनः किं० धृतिमत्सु सन्तोषशालिषु धैर्यवत्सु वा, प्रधानौ प्रकृष्टौ साध्विति च क्रियाविशेषणम् ॥ ७४ ॥ " शम्बेन शैलशिरसामिव पूर्वजन्मदुष्कर्मणां भवति सत्तपसैव नाशः । तत्सर्वथा हितसमीहितदानदक्षे तद्दम्पतीहृदभवत् कृतयत्नमत्र ॥७५॥ शैलशिरसां गिरिशृङ्गाणामिव यथा, शम्बेन बज्रेण, तथा पूर्वजन्मनां यानि दुष्कर्माणि तेषां पूर्वजन्मदुष्कर्मणां सत्तपसैब, नाशो भवति ; तस्मात्कारणात् तद्दम्पतीहृत् तयोर्भार्यापत्योर्मनः, अत्राऽस्मिन् तपास, कृतयत्नं प्रयत्नवत् अभवज्जातम् ; तपास किं० हितं पथ्यं च यत् समीहितं कामितं, तस्य हितसमीहितस्य यद्दानं तत्र दक्षे निपुणे ॥ ७५ ॥ एधांसि वह्निरिव भानुरिवान्धकारान् पूर्वार्जितानि दुरितानि निहन्ति भाव: । "
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy