________________
नवमः सर्गः
३३५
9
प्रथमे मुख्ये" इति वचनात् तैत्रयोदशर्षिप्रमुखैः, वृतं परिकरितं; समायान्तं प्रेक्ष्य अकब्बरः शाहिः, मुदं दधौतमां अतिहर्षितवान् । दृष्टान्तमाह-यथा पाथोमुचं मेघं दिव्याकाशे, उन्नतं प्रेक्ष्य शिवी मयूर इवेति ॥ २९ ॥ नृपोऽभिगच्छन् सुमनोमनोरमो भाति स्म साक्षादिव वासवस्तदा । विधाय सुस्वागतमागतोचितं
मुदाऽनमस्यच्च गुरोः पदद्वयीम् ॥ ३० ॥
तदा गुरून् प्रति अभिगच्छन् संमुखं व्रजन् नृपोऽकब्बर- शाहिः, भाति स्मेत्यन्वयः । इवोत्प्रेक्ष्यते - साक्षाद्वासवः शक्रइव, किं०, सुमनोमनोरमः, नृपपक्षे सुमनसा शोभनचित्तेन मनोरमः, अथवा सुमनोभिः प्राज्ञैर्मनोरमस्तत्परिवृतत्वात् ; शऋपक्षे सुमनोभिः सुरैर्मनोरम इति, आगतोचितं सुस्वागतमित्यादिप्रश्नं विधाय, गुरोः श्रीहीरविजयसूरेः पदद्वयीं मुदा - नमस्यत् प्राणमत् ॥ ३० ॥ शार्नमतो गुरुः किं बभाणेत्याहअजय्यचेतोजतमोभवान्तकृद् वृषाङ्कवैकुण्ठविरञ्चिसन्निभः । नृपाय कल्याणलतापयोमुचा
तदाऽभ्यनन्दत् सुकृताशिषा गुरुः ॥ ३१ ॥
गुरुः किं०, अजय्योऽजेयो यश्चेतोजः स्मरस्तथा तमः पापं भवथ संसारस्तेषां चेतोजतमोभवानां अन्तकृद्विनाशकारी, अत एव वृषाङ्कत्रैकुण्ठविरश्चिसंनिभः हरहरिहिरण्यगर्भतुल्य