SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ विजयप्रशस्त्याम् । यतः प्रसन्नं प्रसत्तिमत, यथा इन्दोश्चन्द्रस्य, विम्बं कुमुदा कैरवाणां, प्रोल्लासरूपां संपत्ति दत्ते, उभयमप्यनघं निर्मलमिति ॥ १५३ ॥ चक्रकोदण्डदण्डास्त्रत्रिशूलप्रमुखायुधैः । प्रदेषपिशुनैः पाणी यस्य न स्तः कलङ्कितौ ॥१५४॥ ..तथा यस्य पाणी हस्तौ, चक्रकोदण्डदण्डास्त्रत्रिशूलैः प्रतीतैरित्याद्यायुधैः प्रहरणैः, किं०, प्रद्वेषस्य पिशुनैः सूचकैः, कलकितौ न स्तो न भवतः, यत्करौ उपसूचकोपकरणैरसंपृ. काविति ॥ १५४ ॥ हावैर्भावैर्विभावैश्च स्मरस्मरणकारणम् । भवन्ति किल यस्याङ्के नाऽलङ्काराय सुध्रुवः ॥१५५।। द्वेपचिह्नोपकरणराहित्यं प्रदर्य रागागराहित्यं प्रदशर्यतियस्याङ्के सुभ्रुवो नालङ्काराय भवन्ति, सुचवः स्त्रियः,किं०, हावो मुखविकारः, "भावश्चित्तसमुद्भवः" इति वचनादाभ्यन्तरो रागोदेकः, विभावो वचःप्रकाश्यहार्दप्रेमरसः, तैः कृत्वा स्मरस्य स्मरणं स्मृतिस्तत्कारणं, कामिन्यो हि हावादिभिः कामं स्मारयन्ति, ता यदके न दृश्यन्त इति ॥ १५५ ॥ वाहनं तुरगच्छागविहङ्गवृषभादिकम् । अलीवाऽगन्धि पुष्पं योऽध्यारत नाऽऽमोदमेदुरः॥१५६॥ यो वाहनं यानं; कि०, तुरगा अश्वाः, छागा मेपाः, विहङ्गा मयूरमरालादयः, तृपभाः प्रतीतास्तदादिकं न अध्यास्ते नारोहति, यथाऽलिरिवालीत्यपि, तेन अली भृङ्ग इवाऽगन्धि गन्धवर्जितं, पुष्पं नाऽध्यारते, कि०, आमोदेन हर्पण मेदुरः पुष्टः, पक्षे, आमोदेन गन्धेन मेदुर इति ॥ १५६ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy