SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः। ४०५ मध्याहे, श्रान्तिवादवरुदैरुत्तीर्णैः, मेरुसानुः सुमेरुशृङ्गमिवेति दृष्टान्तोत्नेक्षे ॥ ४६॥ अस्तोकलोके हितचिन्तितार्थ चिन्तामणेभूर्यनुभावधाम्नः । श्रीपार्श्वनाथस्य जगत्प्रसिद्ध नामाऽथ चिन्तामणिरित्यकारि ॥ ४७ ॥ श्रीपार्धनाथस्य; किं०, अस्तोकलोके भूरिजने, हिता ये चिन्तितार्थाः कल्पितपदार्थास्तत्र चिन्तामणेचिन्तारत्नस्य, तत्- . पूरकत्वात् , पुनः, भूर्यनुभावस्य प्रभूतप्रभावस्य धाम्नो वेश्मनः, नाम; किं०, जगत्मसिद्ध चिन्तामणिरित्यकारि, सूरिणेति शेषः ॥ ४७॥ पद्मावतीपन्नगपत्युपास्ति पूजाप्रशस्ता मरुतां लतेव। दत्ते कुवेदाऽङ्गुलिसंमितैषा चिन्तामणेमूर्तिरभीप्सितानि ॥ ४८ ॥ • पद्मावती शासनाधिष्ठायिका देवी, पन्नगपतिधरणेन्द्रस्तनिर्मिते ये उपास्तिपूजे उपास्तिपूजयोः का प्रतिविशेषः?, इत्याह-उपास्तिनित्यसेवारूपा, पूजा च कादाचित्की पुष्पार्चादिरूपा, ताभ्यां प्रशस्ता श्रेयसी, चिन्तामणेः पार्थस्य, मूर्तिः, किं०, कु: पृथ्वी एका, वेदाश्चत्वारस्तेनाइवामगत्या कुवेदसंमितानि ४१ यानि अङ्गुलानि तैः संमिता एकचत्वारिंशदङ्गुलीयेति, अभीप्सितानि वाञ्छितानि, मरुतां सुराणां, लतेव दत्ते ॥४८r दृष्टयेव विध्यापयितुं दुरन्ता तङ्कप्रदीपानिव सप्त संपन् ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy