SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ४०४ विजयप्रशस्त्याम् । स्पतिस्तस्य भाः किरणा द्वादश तन्मितायां द्वादश्यामिति, पुनः, शुक्रे ज्येष्ठे मासि, किं०, पीयूषपादस्य चन्द्रस्य विड् यत्र तत्र शुक्लपक्षे, च पुनः, लग्ने राश्युदये, अहनि च दिने, दोषोज्झिते निर्दोपे, अत एवाऽनघे मनोज्ञे ॥४३॥ सूरिः श्रीविजयसेनाचार्यधुर्यः, किं०, आनन्दकन्दाकरे हर्षकन्दलोद्गमे नीरवाहो मेघः, श्रीपार्श्वनाथस्य वक्ष्यमाणचिन्तामणीतिनामकस्य, पुनः, श्रीवर्धमानभर्तुरीरजिनस्य च, उभयोईयोः स्वामिनोः, प्रतिष्ठाम् , किं०, दत्तजगत्प्रमोदां वितीर्णविश्वहर्षा, व्यधादकरोत् । त्रयाणां व्याख्येति ॥ ४४ ॥ संस्थापितान्यन्यतमानि पूज्यै बिम्बानि तस्यां चतुरस्रिकायाम् । भान्ति स्म सीमन्धरमुख्यतीर्थ नाथाः समभ्येयुरिवाद्य साक्षात् ॥ ४५ ॥ तस्यां चतुरस्रिकायामन्यतमान्यपि विम्बानि जिनप्रति'मालक्षणानि, पूज्यैः संस्थापितानि प्रतिष्ठितानि भान्ति स्म । इवोपेक्ष्यते-प्रतिमाऽप्रतिमरूपाऽतिशयच्छलेनाद्य साक्षात्सीमन्धरप्रमुखतीर्थनाथाः समभ्येयुरिति ॥ ४५ ॥ क्लुप्तप्रतिष्ठोऽद्भुतजातरूप रूपैर्गुरुः पूजित आबभासे । मध्यन्दिने श्रान्तिवशावरूद्वै. धर्माशुबिम्बैरिव मेरुसानुः ॥ ४६ ॥ क्लुप्तप्रतिष्ठः कृतजिनप्रतिमास्थापनः, गुरुः; किं०, अद्भुतैर्जातरूपरूपैः स्वर्णरूप्यरूपकैर्नाणकविशेषः, पूजितः सन् , आवभासेऽशुभत् , धर्माशुविम्वैः सूर्यमण्डलैः, किं०, मध्यन्दिने
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy